तेजोबिन्दूपनिषद: पञ्चमाध्यायस्य अयं पञ्चसप्ततितम: श्लोको दृश्यजगत: तस्य द्रष्टुश्च निष्प्रतियोगिकाभावरूपत्वं वर्णयति। दृश्यजगतो निरूपणं शास्त्रेषु त्रिधा लभ्यते। स्वाज्ञदृष्ट्या अस्य जगत: सत्यत्वेन अनुभूतिर्भवति। तामनुभूतिमनूद्य परिणामवादाश्रयात् कुत्रचिज्जगत् सत्यत्वेन निर्दिष्टमस्ति। अथ स्वज्ञदृष्ट्या अस्यैव जगतो निरूपणं मिथ्यात्वेन भवति। अत्र दृष्टान्ता रज्जुसर्पादय:। अथ पुनः पारमार्थिकदृष्ट्या जगतो न मिथ्यात्वं प्रत्युत शशविषाणवत् निष्प्रतियोगिकाभावरूपत्वमेव। इदमेव तत्त्वमयं श्लोक: प्रतिपादयति। न अत्र भ्रमितव्यं यत् द्रष्टुरपि दृश्यवत् स्वरूपेण निषेध: श्रुत्या अभिप्रेत:। द्रष्टुर्द्रष्टृत्वस्य एव निषेध: प्रतिपादित:, तस्य अविद्याप्रयुक्तत्वात्। पारमार्थिकदृष्ट्या अयं द्रष्टा आरोपितद्रष्टृत्वरहितत्वेन स्वप्रकाशतया वर्तते इति आशय:।
Sunday, April 26, 2026
सर्वं शशविषाणवत्
Saturday, April 25, 2026
अनित्यं सर्वमेवेदम्!
अस्मिञ्जगति बहूनि वस्तूनि सन्ति यै: सह वयमस्माकं सम्बन्धो वर्तते इति मन्यामहे। इदं शरीरं मम, अयं मम तनय:, इयं मम सुता, इयं मम भार्या, इदं मम गृहम्, इदं मम वित्तमित्यादय: सन्ति मम पदार्थै: सह केचन सम्बन्धा:। एतेभ्य: सम्बन्धकारणेभ्य: शरीरापत्यभार्याणां सुखदुःखयो: अहं सुखदुःखे अनुभवामि। गृहवित्तयोर्लाभे स्वकीयस्य लाभोऽनुभवामि।
अत्र सरलतया एतं तु अवगन्तुं शक्नुम एव वयं यदेते सर्वे अनित्या:। शरीरं भवतु, भार्या भवतु, अपत्यानि भवन्तु, वित्तगृहशरीराणि भवन्तु वा, ते सर्वे अनित्या एव। अद्य सन्ति, परेद्युर्भवितारो न वा इति वक्तुं न शक्यते। माता अद्य अस्ति, परेद्यु: सा कुत्रापि न दृश्यते। क्व गता सा? कुत्रापि न दृश्यते। तस्या वाचो न श्रूयन्ते। गृहं ह्यो मया दृष्टम्, अद्य न दृश्यते, भूकम्पे नष्टं जातम्। इदं शरीरं, यस्मिन् आसीन्मम महदभिमान:, अद्य जराजीर्णमस्ति, कीदृशी कुरूपता आगता अस्मिन्! अहो! सत्यम्! एते सर्वे मम सम्बन्धिन: सुतरामनित्या:।
अथ न केवलं तेषामनित्यत्वम्, प्रत्युत तेषां दोषदूषितत्वमपि विद्यते। आध्यात्मिकाधिभौतिकाधिदैविकतापैर्दूषिता मम सम्बन्धिनो मयि अपि शोकं तापञ्च जनयन्ति।
न किमपि सारं वर्तते अत्र। यद्वस्तु अद्य वर्तते, परेद्युर्वर्तते न वा इति वक्तुं न शक्यते चेत् तर्हि किं सारं तत्र? न किमपि सारं तत्र। एतस्मात् सारहीनत्वात् पुन: तेषां हेयत्वम्। हेयत्वात् निन्दितत्वम्।
एतेषु रम्यमानोऽहमसारेषु सारं पश्यामि। हेयेषु उपादेयत्वं पश्यामि। अहो मम मूढता यदनित्येषु नित्यत्वं वाञ्छामि!
एतेषां दृश्यानामनित्यत्वमवगच्छन् तान् प्रति तीव्रवैराग्यञ्जायते। को लाभ: तेभ्यो मम! तै: सह मम सम्बन्धे सति केवला हानिरेव वर्तते।
एवं दृश्यानां सर्वेषां अनित्यत्वं तापत्रितयदूषितत्वमसारत्वं निन्दितत्वं हेयत्वञ्च जानन् तेभ्यो विमुखता जायते, क्रमेण शान्तिर्लभ्यते।
अष्टावक्रगीता नवमाध्याये इदन्तत्त्वं श्लोकरूपेणोपदिशति -
अनित्यं सर्वमेवेदं तापत्रितयदूषितम् ।
असारं निन्दितं हेयमिति निश्चित्य शाम्यति ॥ ३ ॥Thursday, April 23, 2026
एको द्रष्टाऽसि!
द्रष्टुरेकत्वमद्वैतवेदान्तस्य मुख्य: सिद्धान्त:।
अथ को नाम अयं द्रष्टा।
अविद्योपहितचैतन्यमिति शास्त्राणि आहु:। तत्र अविद्याया एकत्वाच्चैतन्यस्य अद्वयत्वाच्च अविद्योपहितचैतन्यमेकमेव भवितुं शक्यते इति स्फुटम्। अत एव उच्यते 'एको द्रष्टा असि' इति।
द्रष्टुरुपहितत्वान्न द्रष्टृस्वरूपे अविद्याया: प्रवेश:, उपाधेरुपहितेन सह अनन्वयत्वात्। अथ अविद्यया एव बन्ध:, बन्धस्य विद्यानिवर्त्यत्वात्। अत: अविद्यागन्धरहितस्य साक्षिणो बन्धरहितत्वं नाम मुक्तत्वं स्पष्टम्। अत एव आचार्या ऊचिरे 'मुक्तप्रायोऽसि सर्वदा' इति।
अथ स्वकीये द्रष्टृस्वरूपे अवस्थानं परित्यज्य अविद्यया सह अविद्याकार्यै: सह वा यदा मम द्रष्टुरवस्थानं भवति, तदा अविद्याप्रतिबिम्बेन जीवेन सह बुद्ध्यवच्छिन्नेन प्रमात्रा सह वा तादात्म्यं जायते। एवं तादात्म्याध्यासमवाप्य स्वकीयमेकत्वं विस्मृत्य द्रष्टुर्बहुत्वं मन्यमानोऽहं 'बहवो द्रष्टार:' इति मन्ये। अयमेव तादात्म्याध्यासो बन्ध इति आचार्या ब्रुवते। अन्यस्य द्रष्टुर्दर्शनं अविद्यया सह, बुद्ध्या सह वा अध्यासादृते न भवितुं प्रभवति। अत एव सूक्तं द्रष्टृबहुत्वं बन्ध इति।
अयं भाव: - भवान् न एतानि दृश्यानि। भवान् एतेषां सर्वेषां दृश्यानामेको द्रष्टा अस्ति, साक्षी अस्ति। अध्यासरूपो बन्धोऽपि दृश्यमेव, भवान् तस्य अपि द्रष्टा। अत एव भवान् सर्वदा मुक्त:, भवत्स्वरूपे बन्धस्य अभावत्वात्।
एवं विचारिते स्वकीये स्वरूपे मम अवस्थितिर्लभ्यते।
Wednesday, April 22, 2026
अज्ञानस्य अज्ञानप्रयुक्तत्वम्
अज्ञानस्य अज्ञानप्रयुक्तत्वं नाम किम्?
अज्ञाने स्थित्वा एव अज्ञानस्य कल्पना भवति इति अज्ञानस्य अज्ञानप्रयुक्तत्वम्।
मम स्वरूपं यत् शुद्धाद्वयं निरवच्छिन्नम् अखण्डानन्तं चैतन्यम्, तदज्ञानेन आवृतम् इति कल्पना अज्ञाने स्थित्वा एव भवति। तत्त्वदृष्ट्या अज्ञानस्य न कथमपि आञ्जस्यम् इति सम्बन्धवार्तिके षट्सप्तत्यधिकशततमे श्लोके सुरेश्वराचार्यैर्विवरीतम्।
[नाविद्याऽस्येत्यविद्यायामेवाऽऽसित्वा प्रकल्प्यते। ब्रह्मदृष्ट्या त्वविद्येयं न कथञ्चन युज्यते।।]
तर्हि शुद्धचैतन्यम् आवृतं न वा? अस्ति तस्य आवृतत्वं चेत् कथम् एतस्य अज्ञानस्य कल्पितत्वम् अज्ञानप्रयुक्तत्वम् वा, नास्ति चेत् कथं मम अखण्डानन्तं स्वरूपं न प्रकाशते? कथमहं मां देशकालावच्छिन्नत्वेन अनुभवामि?
अत्र बोध्यम् - नास्ति भवदुपरि किमपि आवरणम्। अस्ति आवरणम् इति भवत: कल्पना। न प्रकाशते मम निरवच्छिन्नं स्वरूपम् इति अपि भवत: कल्पना। किं बहुना अज्ञानम् अपि भवत: कल्पना। अस्तित्वहीनेन कल्पितेन अज्ञानेन अज्ञानप्रयुक्तस्य आवरणस्य अपि कल्पना भवति।
तर्हि प्रकाशते एव मम निरवच्छिन्नं स्वरूपम्। मिथ्याज्ञानकारणात् स्वं स्वान्यत्वेन मत्वा मम स्वरूपम् अखण्डानन्तं नास्ति न प्रकाशते इति कल्प्यते।
एवं श्रीमहर्षेर्वाक्यं अस्माभिरवगन्तव्यम्।
Tuesday, April 21, 2026
जीवस्य साक्षिणो वैलक्षण्यम्
जीवो नाम चैतन्य-आभास-युक्त अहङ्कार:। अयमेव जीव: चिदाभासविशिष्टाहङ्कार इति शब्देन परिभाषित:। अयं जीव: कर्ताभोक्तारूपेण शास्त्रे व्यवह्रियते।
अथ साक्षी जीवभिन्न: कूटस्थचैतन्यम्। प्रतिबिम्बरूप आभासरूपो वा जीव:, अयं साक्षी तु बिम्बचैतन्यम्। कूटस्थत्वाद् अस्य साक्षिणो निर्विकारत्वम् उदासीनत्वं बोधृत्वञ्च।
दर्पणे अविद्यमाने यथा मुखं मुखमात्रत्वेन वर्तते, दर्पणे आनयने सति यथा तस्य एव मुखस्य बिम्ब इति प्रतिबिम्ब इति संज्ञा भवति, तथैव उपाधौ अविद्यमाने चैतन्यमात्रत्वेन स्थितं शुद्धचैतन्यम् उपाधौ सति साक्षी इति जीव इति संज्ञया व्यवह्रियते।
नृत्यशालास्थदीपदृष्टान्तेन साक्षी जीवाद्विविच्य विद्यारण्यस्वामिभिर्दर्शित:। स: श्लोक अवधानेन स्मरणीयं तस्य तत्त्वावबोधे महत्त्वत्वात्।
नृत्यशालास्थितो दीप: प्रभुं सभ्यांश्च नर्तकीम्।
दीपयेदविशेषेण तदभावेऽपि दीप्यते॥
(पञ्चदशी १० । ११)
अत्र प्रभु: अहङ्कारतुल्य:, सभ्या: विषया:, नर्तकी बुद्धि: इति बोध्यम्। दीप: साक्षी इति तु स्फुटम्।
इदं जीवसाक्षिणोर्वैलक्षण्यं सिद्धान्तलेशसङ्ग्रहे द्विपञ्चाशदधिकशततमे पुटे विवरीतम्।
Sunday, April 19, 2026
निर्द्वन्द्वो निरायासः
मन: कथं विक्षेपम् आप्नोति इति विचारिते सति इदं लभ्यते यद् द्वन्द्वम् एव मनसो विक्षोभे कारणम्।
अथ किं नाम इदं द्वन्द्वम्?
मया इदं कृतम्, इदम् अधुना अपि कर्त्तव्यम् इति एव द्वन्द्वस्य स्वरूपम्। सुखदु:खादीनां शीतोष्णादीनां च द्वन्द्वानां मूले अपि इदमेव वर्तते।
सुखं मया प्राप्तव्यम्, दु:खं दूरीकर्त्तव्यम्, ग्रीष्मे शीतं प्राप्तव्यम्, शीते उष्णता प्राप्तव्या इत्यादय: स्फुटा:।
अथ इदं कृतम्, इदं कर्त्तव्यम् इति बुद्धिर्यावत्कालं तिष्ठेत् तावत् मनसो विक्षोभ: अपि तिष्ठेदेव। सुखेन अवस्थानम् अपि भवितुं न शक्यते।
धर्मार्थकाममोक्षेषु सर्वेषु अपि पुरुषार्थेषु यदा अपेक्षाया हानिर्जायते, यदा कार्यकारणभावस्य मिथ्यात्वावगमाद् आयासस्य मिथ्यात्वनिश्चयो जायते, तदा गलितसर्वाश: अहं मम स्वकीये निरायासे स्वरूपे सहजतया वर्ते।
Monday, April 6, 2026
निरहमनिदं स्वरूपम्
कार्यकारणभावो मिथ्या, दृश्यत्वात्, रज्जुसर्पवत्, स्वप्नदृश्यकार्यकारणभाववच्चेति अनुमानाद् दृश्यस्य कार्यकारणभावस्य मिथ्यात्वं सुखेन अवगम्यते। मिथ्यात्वं पुन: तस्य दृश्यस्य ज्ञातैकसत्ताकत्वं नाम प्रातिभासिकत्वं साधयति। तर्हि दृश्यकार्यं दृश्यकारणं च यथा दृष्टिसमसमये जायेते, तथैव तयोर्मध्ये कार्यकारणभावोऽपि तस्मिन्नेव समये उत्पद्यते। किन्तु समानकाले उत्पन्नवस्तुनोर्मध्ये कार्यकारणसम्बन्धो भवितुं न शक्यते। एतेन सिध्यति यत् कोऽपि कार्यकारणसम्बन्धो दृश्यमानयोरविद्याकार्ययोर्मध्ये नास्ति, तस्य कार्यकारणभावस्य प्रतिभासमात्रं भवति।
सम्यक्। किन्तु किम् एवमपि वक्तुं शक्यते यद् अविद्याकार्याविद्ययोर्मध्येऽपि कार्यकारणसम्बन्धो नास्ति? उच्यते चेत् तर्हि कथं दृश्यस्य अनुमानसिद्धम् अविद्याकार्यत्वं न विरुध्यते। अविद्याया: कारणत्वं नाङ्गीक्रियते चेत्तर्हि किमर्थं भवता ज्ञानाय यत्न: क्रियते। श्रुतिषु ज्ञानस्य मोक्षकारणत्वम् अपि ज्ञानस्य अविद्यानिवारकत्वाद् अविद्यायाश्च बन्धकारणत्वादेव कथ्यते खलु। तर्हि इदमेव लभ्यते यद् दृश्यानाम् अविद्याकार्याणां मध्ये कार्यकारणसम्बन्धस्य निराकरणं स्वीक्रियते अपि चेत्, न अविद्याकार्याविद्ययोर्मध्ये कार्यकारणसम्बन्धस्य निराकरणं युक्तियुक्तम्।
नैतत् सारम्। दृश्यताम्। मिथ्याशब्देन इदमेव लभ्यते यद् दृश्यमानानां वस्तूनां सत्ता नास्ति, तेषाम् अस्तित्वं नास्ति, किन्तु तेषु अस्तित्वस्य प्रतिभासमात्रं भवति। यदा अस्माभि: कार्यकारणभावस्य निषेध: क्रियते, तदा न तस्य कार्यकारणभावस्य प्रतिभासस्य निषेध: क्रियते, किन्तु प्रतिपन्नोपाधौ तस्य अत्यन्ताभावो नाम त्रैकालिकनिषेधप्रतियोगित्वं प्रतिपाद्यते। अविद्याकार्याविद्ययोर्मध्ये य: कार्यकारणसम्बन्धो दृश्यते, स: सम्बन्ध: सत्ताहीन:, न तस्य अस्तित्वं विद्यते। किन्तु अधिष्ठानभिन्नदृष्ट्या तस्य प्रतिभासस्य निराकरणं कर्तुं न शक्यते। अतो लभ्यते यत् दृश्यवस्तूनाम् उत्पत्तिसमये यथा अविद्याकार्याणां मध्ये कार्यकारणभाव: प्रातिभासिकतया जायते, तथैव अविद्याकार्याविद्ययोर्मध्येऽपि कार्यकारणभावो जायते। अविद्याया अनादित्वं स्वीक्रियते अपि चेत् न तेन सिद्धान्तस्य काऽपि हानि:।
अथ यथा अविद्याया: सत्ताहीनं प्रतिभासमात्रं भवति, तथैव अविद्याया बन्धकारणत्वस्य अपि सत्ताहीनं प्रतिभासमात्रं भवति। तथैव ज्ञानाय या प्रवृत्तिर्मयि दृश्यते, सा प्रवृत्तिर्ज्ञाननिष्ठाविद्यानिवारकत्वस्य प्रतिभासमात्रेण उपपद्यते। श्रुतीनाम् अर्थोऽपि एवमेव स्वयमेव ऊहनीय:।
एवं किं लभ्यते इति पृष्टे सति इदमेव वक्तव्यं यत् कार्यकारणभावस्य मिथ्यात्वावबोधेन अस्माकं द्रष्टृस्वरूपे स्थितिर्भवति। यत् किमपि दृश्यते अस्माकं पुरत: तत्सर्वम् इन्द्रजालं मरीचिजलस्वप्नवत् प्रचलति इति बोधो जायते। यावद् ज्ञायते तावदेव तेषां स्थिति:। मम द्रष्टुस्तै: सह नास्ति किमपि प्रयोजनम्। अहमिति बोधो योऽस्ति सोऽपि मरीचिजलवदेव, कदाचिद्दृश्यते, कदाचिद् न दृश्यते। अत: सोऽपि तिरस्क्रियते। ज्ञानाय मम प्रवृत्तिरपि अविद्याप्रयुक्ता, मम कर्त्तव्यकर्मसु निरतत्वम् अविद्याप्रयुक्तम्, तैरिन्द्रजालैर्न मयि द्रष्टृस्वरूपे कोऽपि विक्षोभ:। अतो निरहमनिदमात्मके निजस्वरूपे शान्त: सन् वर्ते।
Thursday, April 2, 2026
शान्तिमाप्नोति नैष्ठिकीम्
मुमुक्षुतायाः चरमोत्कर्षे मुमुक्षुत्वमपि त्यक्तव्यम्!
मोक्षार्थिभि: चत्वारि साधनानि सम्पादनीयानि इति वेदान्तग्रन्थेषु सर्वत्र लभ्यते। तत्र विवेकवैराग्यशमादिषट्कसम्पत्तिमुमुक्षुत्वम् इति साधनचतु...
-
मदभीष्टं मया न प्राप्तम्, अनभीष्टञ्च अहं प्राप्तवान् प्राप्स्यामि वा। अत एव अहं घोरे संसारसागरे दु:खजलधौ च निमज्जामि इति एतावती एव कथा सांसा...
-
अहं कर्ता, मम कुटुम्बस्य पालनं मया क्रियते। यदि अहं मम कर्तव्यं कर्म न करोमि, तर्हि मम सुहृद: सर्वे दु:खं प्राप्स्यन्ति। मया सर्वदा धर्म आचर...
-
अहं बद्धोऽस्मि, मुक्त्यर्थमहं साधनां कुर्वे। बहुकालं यावत् साधनामार्गे स्थित्वा यदा मम अन्त:करणं पवित्रं भविता, तदा शुद्धब्रह्मज्ञानेनाज्ञान...
