स्वाज्ञदृष्ट्या सत्यत्वेन दृश्यमानं जगत् स्वज्ञदृष्ट्या मिथ्यात्वेन तत्त्वदर्शिभिरनुभूयते। पुन: परमार्थदृष्ट्या तदेव जगत् निष्प्रतियोगिकाभावरूपं शशविषाणवत् इति श्रुतौ व्याख्यातम्। अयमेव सिद्धान्त: तेजोबिन्दूपनिषद: पञ्चमाध्यायस्य पञ्चसप्ततितमे मन्त्रे प्रतिपादितो यत्र श्रुतिर्वक्ति "इदं प्रपञ्चं यत्किञ्चिद्यद्यज्जगति विद्यते । दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत्॥" इति।
अत्रेदं ध्यातव्यं यत् व्यवहारकाले जगतो निष्प्रतियोगिकाभावरूपत्वं तत्त्वदर्शिभिरपि अनुभवितुं न शक्यते, तस्मिन् काले तस्य दृश्यत्वात्। अत एव व्यवहारकाले तत्त्वदर्शी अपि जगतो मिथ्यात्वमेवानुभवति। गीताया द्वितीयाध्यायस्य षोडशे श्लोके भाष्यकृता जगतो मरीचिजलवत् मिथ्यात्वं स्वीकृतम्। तत्र आचार्येण उक्तम् "विकारोऽयमसन्नेव मरीचिजलवन्मिथ्यावभासते" इति। एवम् इदमेव अवसीयते यत् स्वज्ञदृष्ट्या एव इदं वाक्यं वर्णितम्, न पुन: परमार्थदृष्ट्या।
परमार्थदृष्टिस्तु दशश्लोक्यां प्रतिपादिता यत्र आचार्यो जगत: तुच्छत्वं ब्रूते "जगत् तुच्छमेतत् समस्तं" इति।
एवं तर्हि मया किङ्करणीयम् इति पृष्टे सति उत्तरं तु आचार्येण गीतायां दत्तमेव। मया अपि तत्त्वदर्शिनां दृष्टेराश्रयणङ्करणीयम्। यानि दृश्यानि मम पुरत: प्रचलितानि, तानि सर्वाणि स्वप्नेन्द्रजालवदेव अस्ति, न तेषां सत्यत्वस्य लेशोऽपि विद्यते। तानि न सन्ति, सन्ति इव तेषां प्रतिभानं भवति। तेषां दृश्यत्वं तु सर्वथा उपेक्षणीयम्।
अष्टावक्रगीता अपि "स्वप्नेंद्रजालवत् पश्य दिनानि त्रीणि पञ्च वा । मित्रक्षेत्रधनागारदारदायादिसम्पद: ॥" इति श्लोकेन इदमेव उपदिशति। मित्रक्षेत्रधनागारदारदायादिसम्पदां दृश्यत्वात् तेषामिन्द्रजालत्वम्, तत: कालपरिच्छिन्नत्वम्, पुन: तत: तेषामुपेक्षणीयत्वमस्माभिरस्माकं मनसि दृढं स्थापनीयम्।
मिथ्यात्वाद्दृश्यानुपेक्ष्यास्माकं स्थिति: स्वस्वरूपे भवति। तदा एव जगत: शशविषाणवत् निष्प्रतियोगिकाभावरूपत्वमवगम्यते। सा एव अस्माकं स्वरूपभूता स्थिति: परमपुरुषार्थरूपा मोक्षाख्या यस्यां दु:खस्य आत्यन्तिकनिवृत्ति:, नित्यलब्धस्य निरतिशयसुखस्य प्राप्तिरपि भवति!!