Friday, October 31, 2025

आत्मा मनसो जवीय:

ईशावास्योपनिषद: चतुर्थे मन्त्रे आत्मन: स्वरूपं वर्णयन्ती श्रुतिरेनमनेजदिति वक्ति। पुन: तस्मिन्नेव मन्त्रे आत्मा मनसो जवीय इति अपि वर्णितमस्ति। अत्र संशयो जायते यत् कथं विरुद्धमिदं श्रुतिभिरुच्यते। अनेजदिति शब्दादात्मनोऽअचलत्वं प्रतिपादितम्। "एजृ कम्पने" इति व्युत्पत्तेरात्मा कम्पनरहित: स्पन्दरहित: चलनवर्जित इति सिद्ध:। आत्मन: स्वावस्थाप्रच्युतिर्नास्ति इति एतस्मान्मन्त्रात् भाति।  तर्हि कथं पुनरस्य आत्मनो मनसो जवीयत्वं अत्र उदितं श्रुतिभि:। अचलं वस्तु वेगवद्भवितुं नार्हति 

भाष्यकारा अत्र समाधानं कुर्वते - "नैष दोष:, निरुपाध्युपाधिमत्त्वेनोपपत्ते: तत्र निरुपाधिकेन स्वेन रूपेणोच्यते - अनेजदेकम् इति मनस: अन्तःकरणस्य सङ्कल्पविकल्पलक्षणस्योपाधेरनुवर्तनात्। इह देहस्थस्य मनसो ब्रह्मलोकादिदूरस्थसङ्कल्पनं क्षणमात्राद्भवतीत्यतो मनसो जविष्ठत्वं लोकप्रसिद्धम्। तस्मिन्मनसि ब्रह्मलोकादीन् द्रुतं गच्छति सति, प्रथमप्राप्त इवात्मचैतन्याभासो गृह्यते। अत: मनसो जवीय: इत्याह।"      

Tuesday, October 21, 2025

जगत: तुच्छत्वम्

स्वाज्ञदृष्ट्या सत्यत्वेन दृश्यमानं जगत् स्वज्ञदृष्ट्या मिथ्यात्वेन तत्त्वदर्शिभिरनुभूयते। पुन: परमार्थदृष्ट्या तदेव जगत् निष्प्रतियोगिकाभावरूपं शशविषाणवत् इति श्रुतौ व्याख्यातम्। अयमेव सिद्धान्त: तेजोबिन्दूपनिषद: पञ्चमाध्यायस्य पञ्चसप्ततितमे मन्त्रे प्रतिपादितो यत्र श्रुतिर्वक्ति "इदं प्रपञ्चं यत्किञ्चिद्यद्यज्जगति विद्यते । दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत्॥" इति

अत्रेदं ध्यातव्यं यत् व्यवहारकाले जगतो निष्प्रतियोगिकाभावरूपत्वं तत्त्वदर्शिभिरपि अनुभवितुं न शक्यते, तस्मिन् काले तस्य दृश्यत्वात्। अत एव व्यवहारकाले तत्त्वदर्शी अपि जगतो मिथ्यात्वमेवानुभवति। गीताया द्वितीयाध्यायस्य षोडशे श्लोके भाष्यकृता जगतो मरीचिजलवत् मिथ्यात्वं स्वीकृतम्। तत्र आचार्येण उक्तम् "विकारोऽयमसन्नेव मरीचिजलवन्मिथ्यावभासते" इति एवम् इदमेव अवसीयते यत् स्वज्ञदृष्ट्या एव इदं वाक्यं वर्णितम्, न पुन: परमार्थदृष्ट्या

परमार्थदृष्टिस्तु दशश्लोक्यां प्रतिपादिता यत्र आचार्यो जगत: तुच्छत्वं ब्रूते "जगत् तुच्छमेतत् समस्तं" इति

एवं तर्हि मया किङ्करणीयम् इति पृष्टे सति उत्तरं तु आचार्येण गीतायां दत्तमेव। मया अपि तत्त्वदर्शिनां दृष्टेराश्रयणङ्करणीयम्। यानि दृश्यानि मम पुरत: प्रचलितानि, तानि सर्वाणि स्वप्नेन्द्रजालवदेव अस्ति, न तेषां सत्यत्वस्य लेशोऽपि विद्यते। तानि न सन्ति, सन्ति इव तेषां प्रतिभानं भवति। तेषां दृश्यत्वं तु सर्वथा उपेक्षणीयम्

अष्टावक्रगीता अपि "स्वप्नेंद्रजालवत् पश्य दिनानि त्रीणि पञ्च वा । मित्रक्षेत्रधनागारदारदायादिसम्पद: ॥" इति श्लोकेन इदमेव उपदिशति। मित्रक्षेत्रधनागारदारदायादिसम्पदां दृश्यत्वात् तेषामिन्द्रजालत्वम्, तत: कालपरिच्छिन्नत्वम्, पुन: तत: तेषामुपेक्षणीयत्वमस्माभिरस्माकं मनसि दृढं स्थापनीयम्      

मिथ्यात्वाद्दृश्यानुपेक्ष्यास्माकं स्थिति: स्वस्वरूपे भवति। तदा एव जगत: शशविषाणवत् निष्प्रतियोगिकाभावरूपत्वमवगम्यते। सा एव अस्माकं स्वरूपभूता स्थिति: परमपुरुषार्थरूपा मोक्षाख्या यस्यां दु:खस्य आत्यन्तिकनिवृत्ति:, नित्यलब्धस्य निरतिशयसुखस्य प्राप्तिरपि भवति!!      

            

Sunday, October 5, 2025

मा गृधः कस्य स्विद्धनम्

ईशावस्योपनिषद: प्रथममन्त्रे श्रुतिर्मुमुक्षून् बोधयति "मा गृध: कस्य स्विद्धनम्" इति। अत्र भगवता भाष्यकारेण अस्य वाक्यस्य व्याख्यनद्वयं कृतम्। धनविषयिकां गृधिम् आकाङ्क्षाम् मा कार्षी इति प्रथमव्याख्यानम् अन्या इच्छा भवेयुर्नाम, धनविषयिका इच्छा तु मा कार्षी: कस्य धनविषयिकाया इच्छाया निवारणं श्रुत्या क्रियते इति पृष्टे सति कस्यचिदपि धनस्य इच्छा मा कुरु इति आचार्या ब्रुवते अद: धनं स्वकीयं परकीयं वा भवेत्, अमुष्य धनस्य गृधिं मा कार्षी:। परस्य धनस्य इच्छा तु केनचिदपि कदाचिदपि न करणीया, अत्र श्रुतिस्तु स्वकीयस्य धनविषये अपि इच्छाया निरोधनं कुरुते इति अयं विशेषेण ध्यातव्य:। निजमहत्परिश्रमेणार्जितं धनमपि तव इच्छाविषयं मा भवेदित्येव श्रुतेरभिलाष:    

द्वितीयव्याख्यानं तु एवं क्रियते - मा गृध:। तव काऽपि इच्छा मा भवेत्। केवला धनविषयिकाया इच्छाया निवारणम् अत्र नाभिप्रेतम्, किन्तु इच्छामात्रस्य त्यागोऽत्र कथ्यते। किमर्थम्? कस्य अस्ति धनम् इति ब्रूहि? धनं नास्ति कस्यचिदपि, न स्वस्य, न वा परस्य अस्ति धनम्। मम धनम् इति तु अस्ति वृथाभिमान:। अयम् अभिमानोऽध्यासात्मक:। वस्तुतस्तु धनं नास्ति कस्यचिदपि। अथ यदि धनं कस्यचिदपि भवेत्, तर्हि इच्छाविषयं भवितुमर्हेत्। यत: नास्ति धनं कस्यचिदपि, अत: तदिच्छाविषयं मा कुरु        

एवं त्यक्तैषणं मुमुक्षुं प्रति श्रुत्या इच्छामात्रस्य त्यागो विधीयते धनविषयिकाया इच्छाया: त्यागस्तु विशेषेण प्रयासेन अस्माभि: सर्वै: संपादनीय इति लभ्यते 

Friday, October 3, 2025

बन्धस्य मृगतृष्णात्मकता

अहं बद्धोऽस्मि, मुक्त्यर्थमहं साधनां कुर्वे। बहुकालं यावत् साधनामार्गे स्थित्वा यदा मम अन्त:करणं पवित्रं भविता, तदा शुद्धब्रह्मज्ञानेनाज्ञानस्य नाशान्मम मुक्तिर्भविता। अधुना त्वहं मलिनान्त:करणवान्, बहुविक्षेपयुक्तान्त:करणवान् अस्मि। कर्मयोगादिभि: सत्त्वशुद्धिमवाप्य पुन: ज्ञानं प्राप्य, तदनन्तरं  सर्वकर्मणां न्यासं कृत्वा ज्ञाननिष्ठायां स्थित्वा अहं मुक्तो भवितास्मि।

अहो एवमेव अहं मम बन्धनं दृढीकरोमि किम्? 

"अहं बद्धोऽस्मि" इति एवं ब्रुवता मया बन्धस्य स्वरूपं चिन्त्यते किम्? कोऽयं बन्धो यस्मात् मुक्त्यर्थमहं  व्याकुलोऽस्मि? अहं व्याकुलोऽस्मि उत न इत्यपि विचारणीयम् किं शास्त्रे अहं बद्ध इति पठित्वा एव अहं तद्वाक्यस्य पुनरावृत्तिं करोमि, न पुन: तत्र अहं विश्वसिमि! कथमहं बद्ध इति विचार्येव शास्त्रस्य गुरोश्च आश्रयणं करणीयं खलु। अहं तु स्वतन्त्र इति एव मम भाति। मम काऽपि इच्छा भवेत् नाम, तत् पूरयितुं मम सामर्थ्यमस्ति, मम स्वतन्त्रता अपि अस्ति एव। अहं न मन्ये यदहं बद्ध इति यतो मम तु अस्ति पूर्णस्वतन्त्रता। 

मुमुक्षुतायाः चरमोत्कर्षे मुमुक्षुत्वमपि त्यक्तव्यम्!

मोक्षार्थिभि: चत्वारि साधनानि सम्पादनीयानि इति वेदान्तग्रन्थेषु सर्वत्र लभ्यते। तत्र विवेकवैराग्यशमादिषट्कसम्पत्तिमुमुक्षुत्वम् इति साधनचतु...