अज्ञानस्य अज्ञानप्रयुक्तत्वं नाम किम्?
अज्ञाने स्थित्वा एव अज्ञानस्य कल्पना भवति इति अज्ञानस्य अज्ञानप्रयुक्तत्वम्।
मम स्वरूपं यत् शुद्धाद्वयं निरवच्छिन्नम् अखण्डानन्तं चैतन्यम्, तदज्ञानेन आवृतम् इति कल्पना अज्ञाने स्थित्वा एव भवति। तत्त्वदृष्ट्या अज्ञानस्य न कथमपि आञ्जस्यम् इति सम्बन्धवार्तिके षट्सप्तत्यधिकशततमे श्लोके सुरेश्वराचार्यैर्विवरीतम्।
[नाविद्याऽस्येत्यविद्यायामेवाऽऽसित्वा प्रकल्प्यते। ब्रह्मदृष्ट्या त्वविद्येयं न कथञ्चन युज्यते।।]
तर्हि शुद्धचैतन्यम् आवृतं न वा? अस्ति तस्य आवृतत्वं चेत् कथम् एतस्य अज्ञानस्य कल्पितत्वम् अज्ञानप्रयुक्तत्वम् वा, नास्ति चेत् कथं मम अखण्डानन्तं स्वरूपं न प्रकाशते? कथमहं मां देशकालावच्छिन्नत्वेन अनुभवामि?
अत्र बोध्यम् - नास्ति भवदुपरि किमपि आवरणम्। अस्ति आवरणम् इति भवत: कल्पना। न प्रकाशते मम निरवच्छिन्नं स्वरूपम् इति अपि भवत: कल्पना। किं बहुना अज्ञानम् अपि भवत: कल्पना। अस्तित्वहीनेन कल्पितेन अज्ञानेन अज्ञानप्रयुक्तस्य आवरणस्य अपि कल्पना भवति।
तर्हि प्रकाशते एव मम निरवच्छिन्नं स्वरूपम्। मिथ्याज्ञानकारणात् स्वं स्वान्यत्वेन मत्वा मम स्वरूपम् अखण्डानन्तं नास्ति न प्रकाशते इति कल्प्यते।
एवं श्रीमहर्षेर्वाक्यं अस्माभिरवगन्तव्यम्।
No comments:
Post a Comment