Monday, September 29, 2025

कार्यकारणभावस्य मिथ्यात्वम्

मृत्तिकायाः कारणत्वम्, घटस्य कार्यत्वञ्च जगति प्रसिद्धे। अस्माभिस्सर्वैरस्माकं नयनयोः पुरतो दृश्यते यत् कुलालो मृत्तिकया घटस्य सृजनं करोति। एतस्मात् वयं वदामो “मृत्तिका कारणम्, घटः कार्यञ्च” । 

परं तु अनुमानप्रमाणमेतस्य बोधस्यासत्यत्वन्दर्शयति। 

इदमनुमानप्रमाणमेवमस्ति - कार्यकारणभावो मिथ्या, दृश्यत्वात्, रज्जुसर्पवत्, शुक्तिरूप्यवच्च। अनेनानुमानप्रमाणेन कार्यकारणभावस्य मिथ्यात्वम्, तन्नाम सत्ताया अभावे सति सत्तासदृशं दृश्यत्वम्, सुष्ठु स्थापितम्। मृगमरीचिकायाः सदृशमेवास्ति कार्यकारणभाव इति साधितमनेनानुमानेन। नाम कार्यकारणभावस्य सत्ता नास्ति, सत्ता अस्ति इति प्रतिभाति मात्रम्। 

कार्यकारणभावस्य मिथ्यात्वमस्मान् बोधयति यदस्माभिर्गृहीतं मृत्तिका नास्ति अस्माभिर्गृहीतस्य घटस्य कारणम्। घटमृत्तिकयोर्मध्ये कोऽपि कार्यकारणभाव एव नास्ति, अस्ति इति केवलम्प्रतिभाति।

Sunday, September 28, 2025

दृश्यतां विषवह्निवत्

योगवासिष्ठे ४.३५.४ तमे श्लोके महामुनिर्वसिष्ठो भगवन्तं रामं प्रति एवं वक्ति -

किमन्यै: शास्त्रसंदर्भै: क्रियतामिदमेव तु । 

यद्यत्स्वाद्विह तत्सर्वं दृश्यतां विषवह्निवत् ॥ ४ ॥

अयं श्लोकस्तु अध्यात्ममार्गे साधनाकाले बहूपकारीति प्रतीयते। आत्मानं विहाय यत् किमपि वस्तु सुखकरं यदि भाति, तर्हि अयमेव श्लोक: स्मर्तव्य:। इदं वस्तु नास्ति स्वादु, इदं तु विषवह्निवदस्ति। इदं त्याज्यम्। एतेन मम हानिर्भविता।

इदं भोजनं स्वादुतया प्रतीयते? दृश्यतां विषवह्निवत्।

इयं चर्चा मह्यं रोचते? दृश्यतां विषवह्निवत्।

लोके मम महती कीर्तिर्या विद्यते, सा मह्यं रोचते? दृश्यतां विषवह्निवत्।

वित्तम्, अपत्यं मम सुखकरम्? दृश्यतां विषवह्निवत्।

मम अध्यात्मविद्यापाण्डित्यं मां सुखं ददाति? दृश्यतां विषवह्निवत्।

भगवता वासुदेवेनापि गीतायाम् उक्तम् - 

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते। 

आद्यन्तवन्त: कौन्तेय न तेषु रमते बुध:।।

इदं सम्यक्! किन्तु पुनः गच्छता कालेन यदा आत्मविद्या सुदृढा भवति, तदा अनात्मनो मिथ्यात्वनिश्चयेन न तेषु दोषबुद्धिरवशिष्यते। तेषां निरर्थकताया बोधो जायते। मृगमरीचिकायां कस्यापि दर्शनेन किम्!! अनुकूलं वस्तु दृश्यते उत् प्रतिकूलम्, न तेन हानिरस्ति न पुन: लाभ एव! ते सन्ति निरर्थकानि दृश्यानि!!

एवम् अष्टावक्रगीता वक्ति - 

विलसन्ति महाभोगैर्विशन्ति गिरिगह्वरान्।

निरस्तकल्पनाधीरा अबद्धा मुक्तबुद्धय:।१८.५३।

Thursday, September 25, 2025

का बुभुत्सा ते!

इह जगति पदार्थद्वयमेव वर्तते, आत्मा अनात्मा च। न तृतीयं वस्तु कुत्रापि कदापि त्रैलोक्ये दृश्यते। अत्र अनात्मा दृश्यत्वान्मिथ्या एव। मिथ्यात्वाद् रज्जुसर्पवदज्ञानप्रसूतमस्ति अनात्मा। आत्मा तु तद्विपरीतेन एक: शुद्धश्चेतनोऽस्ति, तस्य आनन्दात्मकं स्वकीयं वास्तविकं स्वरूपम्। अनात्मन: स्वरूपन्तु मिथ्या, अविचारिते सति एव तस्य भानं भवति तत्त्वञ्ज्ञाते अनात्मन: त्रैकालिकनिषेधोऽस्ति इति बोधो जायते एवं सति अविद्या अविद्याकार्यम् अविद्याव्याप्यञ्च सर्वं नास्ति किञ्चिदिति अवसीयते 

एवं सति का बुभुत्सा अस्ति तव भ्रात:! "त्वमेकश्चेतन: शुद्धो जडं विश्वमसत्तथा, अविद्याऽपि न किञ्चित्सा का बुभुत्सा तथापि ते" इति वदन्ती अष्टावक्रगीता सकलेभ्योऽनात्मभ्यो दृष्टिं निवारयितुमस्मान् प्रेरयति। यदा सर्वेभ्योऽनात्मभ्यो वयं दृष्टिं निवर्तयाम: तदा तस्मिन् क्षण एव अस्माकं स्वकीये आनन्दबोधात्मके स्वरूपे स्थितिर्भवति! 

इयमेव जीवनस्य परमा गति:!!   

        

        

Monday, September 22, 2025

नाहं कर्ता, अहन्तु द्रष्टा

अहं कर्ता, मम कुटुम्बस्य पालनं मया क्रियते। यदि अहं मम कर्तव्यं कर्म न करोमि, तर्हि मम सुहृद: सर्वे दु:खं प्राप्स्यन्ति। मया सर्वदा धर्म आचरणीयो यतो मया आचरितो धर्म: पुण्यफलं जनयति। ततोऽहं मम कुटुम्बजनाश्च सर्वे सुखं प्राप्स्यन्ति। मया अधर्म: कदापि न आचरणीय:, अधर्म एव मां मम सुहृदश्च दु:खं ददाति खलु।

एवमेव प्रचलन्ति विचारा: सांसारिकाणाम् अहंकारसर्पदंशितानाम्। 

अहो कथं भवता भगवदुक्तं "प्रकृतेरेव कर्तृत्वं न स्वात्मन:" इति विस्मृतम्। न भवान् कर्ता यत: प्रकृतेर्गुणानां एव कर्तृत्वम्। भवान् तु तेषां गुणानां क्रीडां पश्यन् केवलो द्रष्टा अस्ति। स्वकीयं शरीरं, स्वकीया विचारा अपि भवत: ज्ञानस्य विषया:। तान् सर्वाञ्जानन् भवान् निष्क्रिय: सन् सर्वं प्रकाशयति। 

ये विचारा भवन्मनसि आयान्ति, तदनुगुणं शरीरेण यानि कार्याणि भवन्ति, तानि सर्वाणि प्रकाशयन् भवान् स्वात्मनि एव तिष्ठति। यथा अनिच्छन्नपि भवच्छरीरं स्वरक्षार्थं व्याघ्रं दृष्ट्वा क्रियमाणं भवति, पलायनं करोति, तथैव कुटुम्बस्य पालनार्थं ये विचारा वाञ्छनीया:, यानि कर्माणि आवश्यकानि, तानि सर्वाणि तन्निश्चिते काले भविष्यन्ति एव अत्र न कापि शङ्का कर्तव्या। यथा व्याघ्रं दृष्ट्वा भवच्छरीरं  पलायनं करोति, तथैव कुटुम्बोपरि आसन्नसंकटं दृष्ट्वा यत् करणीयं, तद्भविष्यति एव! यदा भवान् मातु: गर्भे आसीत्, तदा केन भवत: रक्षणं अकारि? य: तदा चक्रे सोऽधुना अपि क्रियते इति निश्चये भवदहंकार एव संशयोपस्थापक:। तं त्यजतु    

अहो एवं सति मया तु स्वात्मनि एव स्थातव्यम्। किञ्चन इन्द्रजालम्, किञ्चन चलच्चित्रं मम सम्मुखं प्रचलति। इदं द्रष्टव्यम्। किमन्यदस्ति कार्यम्। अहंकारादारभ्य सर्वाणि दृश्यानि इन्द्रजालसदृशानि। एतानि सर्वाणि दर्शनीयानि

दृश्यस्य इन्द्रजालस्य अभीष्टत्वम् अनभीष्टत्वं वा न कोऽपि विचारवान् चिन्तयति। दृश्यं यत् किमपि भवेत् नाम, तेन किम्! समस्तं कल्पनामात्रमेव, स्वात्मा तु सदा सर्वदा द्रष्टा सन् मुक्त एव। अथ किं करणीयम् अवशिष्येत्। न किमपि न रागोऽस्ति, न पुन: वैराग्यमेव। न मुमुक्षुत्वमस्ति, न पुन: बुभुक्षुत्वमेव। भोगमोक्षनिराकाङ्क्षी दृश्यस्य द्रष्टा एव अस्मि अहम्। "अहं कर्ता" इति महाकृष्णाहिदंशितोऽहम् आसम्, अधुना "नाहं कर्ता, अहन्तु द्रष्टा" इति विश्वासामृतं पीत्वा सुखी अस्मि 

Wednesday, September 10, 2025

कर्मण्येवाधिकारस्ते

मदभीष्टं मया न प्राप्तम्, अनभीष्टञ्च अहं प्राप्तवान् प्राप्स्यामि वा। अत एव अहं घोरे संसारसागरे दु:खजलधौ च निमज्जामि इति एतावती एव कथा सांसारिकाणाम्। 

हन्त कथं त्वया गीताया: श्लोको न स्मर्यते यत् नास्ति तव अधिकार: कर्मफलप्राप्तौ। तव अधिकारस्तु भगवद्वचनानुसारेण अस्ति कर्ममात्रेषु एव खलु। किमर्थं त्वया प्राप्तफलस्य अभीष्टत्वमनभीष्टत्वं वा चिन्त्यते। भगवत्प्रसादात् प्राप्तं फलं किमपि भवेत् नाम, न तेन तव किमपि प्रयोजनम्। 

तव यानि कर्माणि कर्तव्यानि आसन्, तानि ईश्वरार्पितबुद्ध्या त्वया कृतानि न वा? यदि कृतानि तर्हि का चिन्ता तव? त्वया तु तवाधिकारक्षेत्रेषु सम्यग्व्यवहृतम्। अधुना स्वस्य अनधिकारक्षेत्रे मा प्रविश। पुन: यदि ईश्वरार्पितबुद्ध्या त्वया पुरा कर्माणि न कृतानि, तथापि चिन्ता न कार्या। इत आरभ्य तथा कुरु  

फलदाता भगवान् यत् किमपि फलं दद्यात्, न तस्य अन्वेषणं मननं वा कार्यम्। अधुना संप्रति त्वया किङ्करणीयम् इति एव चिन्तनीयम्। कर्मकर्तृत्वं तव अस्ति, फलदातृत्वं पुन: भगवतोऽयमेव भक्ते: सिद्धान्त:। इयमेव भक्तिर्गच्छता कालेन पराज्ञाननिष्ठारूपा भूत्वा त्वां तव निजात्मस्वरूपे स्थापयति। 

मा बिभिष्व, शोकं त्यज, सुखी भव!!   

 

Tuesday, September 9, 2025

ज्ञानोत्तरकाले विद्यास्मृतिः

नैष्कर्म्यसिद्धेः प्रथमाध्यायस्य अष्टात्रिंशत्तमे श्लोके (१.३८ तमे) वर्णितः सिद्धान्तोऽत्र प्रस्तूयते –

पूर्वपक्षी – सम्यग्ज्ञानम्प्रमाणेभ्यो जायते, असम्यग्ज्ञानन्तु अप्रमाणेभ्य इति संप्रतिपन्नम्। तत्र सम्यग्ज्ञानमसम्यग्ज्ञानाद्बलवदिति भवता स्वीकृतम्। तथापि इदमवश्यं स्वीकरणीयं यदसम्यग्ज्ञानेन सम्यग्ज्ञानम्बाध्यते।

सिद्धान्ती – कथमेतद् निश्चीयते?

पूर्वपक्षी – दृश्यताम्। कर्तृत्व-भोक्तृत्व-राग-द्वेषादयो ये द्वैतप्रत्ययाः सन्ति, ते सर्वे अज्ञानोत्था इति सम्प्रतिपन्नम्। पुनः इदमपि सम्प्रतिपन्नं यत् सम्यग्ज्ञानवत्सु ज्ञानिषु अपि रागद्वेषादयो द्वैतप्रत्यया आविर्भवन्ति। अत्र सम्यग्ज्ञान-द्वैतप्रत्यययोर्विरोधस्तु सुप्रसिद्धः। यदि सम्यग्ज्ञानस्य तत्त्वज्ञानिषु बाधो न स्वीक्रियते, तर्हि विरोधिनां द्वैतप्रत्ययानां तत्र आविर्भावः कथं व्याख्यायते। अत एव इदं स्वीकरणीयं यत् उत्पन्नपरमार्थबोधस्याऽपि सम्यग्ज्ञानम् असम्यग्ज्ञानेन बाधितमेव।

सिद्धान्ती – मैवम्। असम्यग्ज्ञानं सम्यग्ज्ञानेन पूर्वमेव बाधितम्। एवं सति मृतस्य अज्ञानस्य सम्यग्ज्ञानबाधार्थं पुनरुद्भावोऽङ्गीकर्तुं न शक्यते।

पूर्वपक्षी – तर्हि द्वैतप्रत्ययैरेव सम्यग्ज्ञानस्य बाधः स्वीक्रियताम्।

सिद्धान्ती – मैवम्। द्वैतप्रत्ययानाम् अपि सम्यग्ज्ञानबाधकत्वं न भवितुं शक्यते।

पूर्वपक्षी – कुतो न शक्यते?

सिद्धान्ती – अवलोक्यताम्। सम्यग्ज्ञानस्य नाम विद्याया अविद्याबाधकत्वन्तु प्रसिद्धम्। अथ अस्या विद्यायाः संस्काराः, तज्जन्याः प्रत्यया अपि स्वीकरणीयाः। एते बाधक-विद्या-संस्कार-जनित-प्रत्यया द्वैत-प्रत्ययापेक्षया बलवन्ताः। ते एव द्वैतप्रत्ययान् उपमर्दयन्ति। सम्यग्ज्ञानस्य क्षति: कर्तुं द्वैतप्रत्यया न समर्था भवेयुः।

अथ वा द्वैतप्रत्यया अविद्यावासनाजन्या द्वैतस्मृतयः। न तैः विद्याया बाधं भवितुं शक्यते।

सारांशः

तत्त्वज्ञानोत्तरकाले अपि विपरीतप्रत्यया जायन्ते एव। कर्तृत्व-भोक्तृत्व-राग-द्वेषादयानां विपरीतप्रत्ययानां प्रारब्धक्षयार्थं प्रारब्धफलभोगाङ्गतया ज्ञानिषु आविर्भावं भवति। इदं न साधु यत् ज्ञानोत्तरकाले ज्ञानिषु ब्रह्मस्वरूपत्वात् कदापि क्वापि रागद्वेषादयानां भाव एव न शक्येत। अत्र इदं ध्यातव्यम् – परमार्थदर्शिना तेषां विपरीतप्रत्ययानां मिथ्यात्वं सम्यग्ज्ञायते। तेषां मृगमरीचिकात्वं जानन् ज्ञानिना ते तिरस्क्रियन्ते। विद्या-संस्कार-जनित-प्रत्ययैर्द्वैतप्रत्यया बाध्यन्ते। अत एव ज्ञानिन आत्मस्वरूपता सुष्ठु निर्बाधतया सुशोभिता तिष्ठति।

सन्दर्भग्रन्थाः

नैष्कर्म्यसिद्धिः १.३८

ननु बलवदपि सम्यग्ज्ञानं सदप्रमाणोत्थेनाऽसम्यग्ज्ञानेन बाध्यमानमुपलभामहे । यत उत्पन्नपरमार्थबोधस्याऽपि कर्तृत्वभोक्तृत्वरागद्वेषाद्यनवबोधोत्थप्रत्यया आविर्भवन्ति । न ह्यबाधिते सम्यग्ज्ञाने -तद्विरुद्धानां प्रत्ययानां सम्भवोऽस्ति।

नैतदेवम् । कुतः-

बाधितत्वादविद्याया विद्यां सा नैव बाधते ।
तद्वासना निमित्तत्वं यान्ति विद्यास्मृतेर्धवम् ॥ ३८ ॥

——————————————————
चित्सुखाचार्यस्य भावतत्त्वप्रकाशिका १.३८

यदुक्तम् “बलवद्धि प्रमाणोत्थम्’ इति, तत्रानुभवविरोधमाशङ्कते — नन्विति । तावता कथं बाधोऽवगम्यत इति, अत आह—न हीति । बाधितस्य बाधकत्वानुपपत्तेर्मैवमिति परिहरति—नैतदेवमिति । अस्तु तर्हि बाधककालादुत्तरकालमुत्पन्नद्वैतप्रत्ययैः विद्याया बाध इत्याशङ्क्य तस्मिन्नपि काले बाधकविद्यासंस्कारजनितप्रत्ययानां बलवत्वात्तेषामेवैतत्प्रत्ययबाधकत्वोपपत्तेर्मैवमिति परिहरति — तद्वासना इति । यद्वा तद्वासनेत्यविद्यावासनाः कथ्यन्ते। अत्रापि स्मृतिं विदुषो जनयन्ति । तेन विद्याया न द्वैतस्मृतिभिरपि बाध इत्यर्थः॥३८॥

—————————————————–
बृहदारण्यकोपनिषद्भाष्यम् १.४.१०

यत्तूक्तं विपरीतप्रत्ययतत्कार्ययोश्च दर्शनादिति, न, तच्छेषस्थितिहेतुत्वात् — येन कर्मणा शरीरमारब्धं तत् , विपरीतप्रत्ययदोषनिमित्तत्वात् तस्य तथाभूतस्यैव विपरीतप्रत्ययदोषसंयुक्तस्य फलदाने सामर्थ्यमिति, यावत् शरीरपातः तावत्फलोपभोगाङ्गतया विपरीतप्रत्ययं रागादिदोषं च तावन्मात्रमाक्षिपत्येव — मुक्तेषुवत् प्रवृत्तफलत्वात् तद्धेतुकस्य कर्मणः ।

मुमुक्षुतायाः चरमोत्कर्षे मुमुक्षुत्वमपि त्यक्तव्यम्!

मोक्षार्थिभि: चत्वारि साधनानि सम्पादनीयानि इति वेदान्तग्रन्थेषु सर्वत्र लभ्यते। तत्र विवेकवैराग्यशमादिषट्कसम्पत्तिमुमुक्षुत्वम् इति साधनचतु...