अहं कर्ता, मम कुटुम्बस्य पालनं मया क्रियते। यदि अहं मम कर्तव्यं कर्म न करोमि, तर्हि मम सुहृद: सर्वे दु:खं प्राप्स्यन्ति। मया सर्वदा धर्म आचरणीयो यतो मया आचरितो धर्म: पुण्यफलं जनयति। ततोऽहं मम कुटुम्बजनाश्च सर्वे सुखं प्राप्स्यन्ति। मया अधर्म: कदापि न आचरणीय:, अधर्म एव मां मम सुहृदश्च दु:खं ददाति खलु।
एवमेव प्रचलन्ति विचारा: सांसारिकाणाम् अहंकारसर्पदंशितानाम्।
अहो कथं भवता भगवदुक्तं "प्रकृतेरेव कर्तृत्वं न स्वात्मन:" इति विस्मृतम्। न भवान् कर्ता यत: प्रकृतेर्गुणानां एव कर्तृत्वम्। भवान् तु तेषां गुणानां क्रीडां पश्यन् केवलो द्रष्टा अस्ति। स्वकीयं शरीरं, स्वकीया विचारा अपि भवत: ज्ञानस्य विषया:। तान् सर्वाञ्जानन् भवान् निष्क्रिय: सन् सर्वं प्रकाशयति।
ये विचारा भवन्मनसि आयान्ति, तदनुगुणं शरीरेण यानि कार्याणि भवन्ति, तानि सर्वाणि प्रकाशयन् भवान् स्वात्मनि एव तिष्ठति। यथा अनिच्छन्नपि भवच्छरीरं स्वरक्षार्थं व्याघ्रं दृष्ट्वा क्रियमाणं भवति, पलायनं करोति, तथैव कुटुम्बस्य पालनार्थं ये विचारा वाञ्छनीया:, यानि कर्माणि आवश्यकानि, तानि सर्वाणि तन्निश्चिते काले भविष्यन्ति एव अत्र न काऽपि शङ्का कर्तव्या। यथा व्याघ्रं दृष्ट्वा भवच्छरीरं पलायनं करोति, तथैव कुटुम्बोपरि आसन्नसंकटं दृष्ट्वा यत् करणीयं, तद्भविष्यति एव! यदा भवान् मातु: गर्भे आसीत्, तदा केन भवत: रक्षणं अकारि? य: तदा चक्रे सोऽधुना अपि क्रियते इति निश्चये भवदहंकार एव संशयोपस्थापक:। तं त्यजतु।
अहो एवं सति मया तु स्वात्मनि एव स्थातव्यम्। किञ्चन इन्द्रजालम्, किञ्चन चलच्चित्रं मम सम्मुखं प्रचलति। इदं द्रष्टव्यम्। किमन्यदस्ति कार्यम्। अहंकारादारभ्य सर्वाणि दृश्यानि इन्द्रजालसदृशानि। एतानि सर्वाणि दर्शनीयानि।
दृश्यस्य इन्द्रजालस्य अभीष्टत्वम् अनभीष्टत्वं वा न कोऽपि विचारवान् चिन्तयति। दृश्यं यत् किमपि भवेत् नाम, तेन किम्! समस्तं कल्पनामात्रमेव, स्वात्मा तु सदा सर्वदा द्रष्टा सन् मुक्त एव। अथ किं करणीयम् अवशिष्येत्। न किमपि। न रागोऽस्ति, न पुन: वैराग्यमेव। न मुमुक्षुत्वमस्ति, न पुन: बुभुक्षुत्वमेव। भोगमोक्षनिराकाङ्क्षी दृश्यस्य द्रष्टा एव अस्मि अहम्। "अहं कर्ता" इति महाकृष्णाहिदंशितोऽहम् आसम्, अधुना "नाहं कर्ता, अहन्तु द्रष्टा" इति विश्वासामृतं पीत्वा सुखी अस्मि।
No comments:
Post a Comment