अहं बद्धोऽस्मि, मुक्त्यर्थमहं साधनां कुर्वे। बहुकालं यावत् साधनामार्गे स्थित्वा यदा मम अन्त:करणं पवित्रं भविता, तदा शुद्धब्रह्मज्ञानेनाज्ञानस्य नाशान्मम मुक्तिर्भविता। अधुना त्वहं मलिनान्त:करणवान्, बहुविक्षेपयुक्तान्त:करणवान् अस्मि। कर्मयोगादिभि: सत्त्वशुद्धिमवाप्य पुन: ज्ञानं प्राप्य, तदनन्तरं सर्वकर्मणां न्यासं कृत्वा ज्ञाननिष्ठायां स्थित्वा अहं मुक्तो भवितास्मि।
अहो एवमेव अहं मम बन्धनं दृढीकरोमि किम्?
"अहं बद्धोऽस्मि" इति एवं ब्रुवता मया बन्धस्य स्वरूपं चिन्त्यते किम्? कोऽयं बन्धो यस्मात् मुक्त्यर्थमहं व्याकुलोऽस्मि? अहं व्याकुलोऽस्मि उत न इत्यपि विचारणीयम्। किं शास्त्रे अहं बद्ध इति पठित्वा एव अहं तद्वाक्यस्य पुनरावृत्तिं करोमि, न पुन: तत्र अहं विश्वसिमि! कथमहं बद्ध इति विचार्येव शास्त्रस्य गुरोश्च आश्रयणं करणीयं खलु। अहं तु स्वतन्त्र इति एव मम भाति। मम काऽपि इच्छा भवेत् नाम, तत् पूरयितुं मम सामर्थ्यमस्ति, मम स्वतन्त्रता अपि अस्ति एव। अहं न मन्ये यदहं बद्ध इति यतो मम तु अस्ति पूर्णस्वतन्त्रता।
तर्हि किमर्थमहं बद्ध इत्यस्य रटनं मया क्रियते। अध्यात्ममार्गे सर्वप्रथमतया अस्माभि: स्वकीयस्य बन्धस्य बोध आवश्यक: खलु। तदा एव अस्मिन् मार्गे अस्माकं योग्यता भवेत्। मम तु नास्ति विश्वास: स्वकीये बन्धे, ततो मोक्षमार्गे मम प्रवृत्तिरपि विफला एव भवेत्।
क्षणं यावत् तिष्ठ सखे! स्वकीयस्य जीवनस्य विवेचनमहं कुर्वे। मया दृश्यते यत् मम सर्वा: प्रवृत्तय: किमपि अपेक्ष्य एव जायन्ते। किमपि प्राप्त्यर्थमेव अहं कस्मिन्श्चित् कर्मणि स्वात्मानं योजयामि। यदा काऽपि इच्छा आयाति तदा बद्धजन्तुरिव तदिच्छाया: पूरणे अहं संलग्नो भवामि। सदा सर्वदा इच्छाया अनुपालन एव मम गतिर्भवति। अहो किं यामहं स्वतन्त्रता इति अभिमन्ये तदेवास्ति मम परतन्त्रता, किं तदेवास्ति मम बन्ध:!
भयमपि जायते इच्छाया एव। मम माता सदा मम सकाशे तिष्ठेदिति इच्छाकारणादेव अहं तस्या वियोगाशङ्कायां बिभ्यदासम्। अधुना सा नास्ति इहलोके, मम अनभीष्टं मया प्राप्तम्, मम इच्छाया: पूरणं न अभवदतोऽहं दु:खी अस्मि।स्फुटमस्ति यदिच्छा एव मम बन्ध:। सा एव स्वामिनीव व्यवहरन्ती मां दु:खे पातयति। यत् किमपि सुखमिव मम भाति, तदपि दु:खमेव, स्वल्पकाले नश्यमानत्वात्। इच्छाभयाभ्यां पीडितोऽहं न कदापि सुखेन स्थातुमर्हामि!
अहो मम बन्ध: अधुना मया सम्यगवगम्यते। एतस्मात् बन्धात् स्वतन्त्रता एव मम जीवने आनन्दमानयिष्यति। यावत्कालं अयं बन्ध: तिष्ठति, तावत्पर्यन्तं नास्ति सुखस्य सम्भावनास्मिन् जीवने! अधुना स्वकीयस्य बन्धस्य विचारानन्तरमहं व्याकुलोऽस्मि एतस्मात् बन्धात् मुक्त्यर्थम्।
अहो अधुना भवति मोक्षशास्त्रस्य वेदान्तस्य अधिकारित्वं आगतम्! सम्प्रति सावधानमनस्को भूत्वा श्रूयतां यत् वेदान्तस्य कथनं किमस्ति।
यत्किमपि दृश्यमस्ति तत्सर्वं मिथ्या, तत्सर्वं भ्रम इति श्रुतयो ब्रुवते! अवधूतगीता सुमनोहरवाण्या गायति यत् वियदादिरिदं सर्वं दृश्यं मृगतोयसमम्। भवद्बन्धोऽपि दृश्यत्वं वहति ननु। तर्हि सोऽपि मिथ्या मृगतोयसममेव।
भवदनुभूतं यत् महद्दुखप्रदं भयमस्ति, यत् भवत: श्वासावरोधनं कृत्वा दु:खं जनयति, सदा यस्मात् कारणात् भवान् सशङ्कोऽस्ति, कदापि सुखेन न तिष्ठति, तद्भयं मिथ्या अस्ति! अस्ति इव भाति, न तत्र तस्य सत्ता अस्ति!!
इच्छास्वामिनीदास: यत् भवान् स्वात्मानमभिमन्यते, सा इच्छा अपि मृगतृष्णासदृशा अस्ति। नास्ति तस्या: सत्ता, सा अस्ति इव प्रतिभाति केवलम्।
भवान् इच्छाभययोराश्रयोऽस्ति। मृगतोयसदृशेच्छाभयाभ्यां भवतो नास्ति कापि क्षति:। सदा निरञ्जन: सन् भवान् शुद्धोऽस्ति, दृश्यकृतपरिच्छिन्नतादुखादयस्य लेशोऽपि नास्ति भवति चिदानन्दे।
दृश्यतामेतां मृगमरीचिकाम्! यतो बन्धस्य सत्ता नास्ति, तत: तस्य भानमुपेक्षणीयम्। तस्य दर्शनं भवतु नाम; भयस्य, इच्छाया दर्शनं भवतु नाम, मृगतोयदर्शनेन नास्ति हानि:, न पुन: लाभ एव! ते सन्ति सर्वथा उपेक्षणीया!
बन्धस्य अदर्शनं मा इच्छतात् भवान्। सा अपि इच्छा एव खलु। बन्धो दृश्यते उत न इति एतेन न किमपि कार्यम्। भवान् तु तस्य द्रष्टा, तं पश्यन् सुखेन तिष्ठतु!!
इयमेव वेदान्तस्य शिक्षा यां अष्टावक्रगीता श्लोकेन गायति - भ्रमभूतमिदं सर्वं किञ्चिन्नास्तीति निश्चयी।अलक्ष्यस्फुरण: शुद्ध: स्वभावेनैव शाम्यति।।18.70।।
No comments:
Post a Comment