Monday, December 22, 2025

साध्यादर्शी निरायास:

कार्यकारणभावो मिथ्या, दृश्यत्वात्, स्वप्नदृष्टकार्यकारणभाववदिति अनुमानेन यदा वयं कार्यकारणभावस्य सत्यत्वं निराकुर्म:, तदा किमपि साध्यं साधनं वा अस्माभिर्न दृश्यते। मम प्रयासो दृश्यत्वान्मिथ्या, प्रयासजन्यं फलमपि दृश्यत्वान्मिथ्या एव इति अवगमात् प्रयासनिष्ठकारणताया फलनिष्ठकार्यतायाश्च निवृत्तिर्भवति। इदन्दृश्यं मम पुरत: प्रचलति, तेन सह न मम कोऽपि सम्बन्ध:। स्वप्नदृश्यवदेतानि सर्वाणि दृश्यानि मिथ्या। तेषां मध्ये अपि मिथ: कोऽपि कार्यकारणसम्बन्धो नास्ति।                 

एवं तर्हि किमर्थं भवान् योगानुष्ठानं कुरुते? पश्यामि यत् भवान् बहुधा समाधौ निमग्नो वर्तते श्रवणमननादौ अपि भवत: प्रवृत्तिर्दृश्यते। कष्टकरं तपो भवता आचर्यते, दिवानिशं परिश्रम: क्रियते, तत्सर्वं किं किमपि फलमनिच्छन्नेव क्रियते वा? यदि भवतां कर्मसु नास्ति कारणत्वम्, तर्हि किमर्थमेतत्सर्वमनुष्ठीयते भवद्भि:?

स्वप्नवदेव एतेषां प्रश्नानामुत्तरमवबोध्यम्। यथा अन्यानि दृश्यानि प्रातीतिकानि, तथैव मया कृतानि श्रवणमनननिदिध्यासनानि अपि प्रातीतिकानि एव। यथा अन्येषां दृश्यानां द्रष्टा अहम्, तथैव मया कृतानां योगानुष्ठानानामपि अहं द्रष्टा एव। न तेषां दृश्यत्वे तन्निष्ठकारणत्वस्य कापि अपेक्षा वर्तते। ते प्रचलन्ति मम पुरत:? प्रचलन्तु नाम! तेषां निवृत्तौ अपि नास्ति किमपि प्रयोजनम्। यत् प्रवृत्तिरिव भाति, यत् निवृत्तिरिव भाति, तयोरुभयोर्मध्ये नास्ति कोऽपि आग्रह:। यदा यद्दृश्यं प्रचलति, तदहं निरपेक्ष: सन् पश्यामि। कारणत्वस्य वैतथ्यत्वाद् दृश्यानां कारणस्य अन्वेषणे मम नास्ति प्रयोजनम्।

एवं मया साध्यं न दृश्यते। नाहं देहो न मे देह:, मम रूपं द्रष्टात्मकं ज्ञानस्वरूपम्। सर्वेषां दृश्यानां द्रष्टा सन् साधनसाध्ये उभे पश्यामि उदासीनतया। अतो निद्रया मम हानिर्नास्ति, योगानुष्ठानेन न कोऽपि लाभ एव मम स्वरूपबोधस्य यतो मम स्वरूपे निद्रानुष्ठाने न वर्तेते। शुद्धचिद्रूपस्य मम कृते सदा शान्तिर्विराजते।

बन्धस्य मिथ्यात्वान्मोक्षे अपि मम नैराश्यम्। इच्छाया वैतथ्यत्वात् कस्याञ्चिदपि इच्छायामुदासीनता। उदासीनताया अदर्शने अपि उदासीनता, तदर्शनस्य मिथ्यात्वात्, उदासीनताया: स्वरूपत्वाच्च।

अत: शुद्धचिद्रूपस्य मम नास्ति किमपि कर्तव्यम्। साध्यादर्शी शान्त: सन्  निरायास: तिष्ठामि।

इदमेव तत्त्वम् अष्टावक्रगीता एवमुपदिशति - 

प्रवृत्तौ वा निवृत्तौ वा नैव धीरस्य दुर्ग्रह:।

यदा यत्कर्तुमायाति तत्कृत्वा तिष्ठत: सुखम्।।18.20।।

सुखदुःखे जन्ममृत्यू दैवादेवेति निश्चयी।

साध्यादर्शी निरायास: कुर्वन्नपि न लिप्यते।।11.4।।

नाहं देहो न मे देहो बोधो़ऽहमिति निश्चयी।

कैवल्यमिव संप्राप्तो न स्मरत्यकृतं कृतम्।।11.6।।

Sunday, December 14, 2025

अभ्यासामृतम्

अस्माकञ्जीविते मनसो महत् प्राधान्यं वर्तते। कस्मिंश्चिदपि कार्ये वयं प्रवर्तितुमुत्सहामहे न वा इति मनसा एव निर्धार्यते। मम मन एतस्मिन् कार्ये रमते अतोऽहमेतं कार्यं कर्तुं प्रवर्ते इति अस्ति सामान्या व्याख्या अस्माकम् भवान् यदि परीक्षायामुत्तमान् अङ्कान् वाञ्छति तर्हि पठने मनो योजयतु, मनसि रुचिः सम्पादयतु एतेन भवतो मनोऽध्ययने लग्नं भविता परीक्षायामुत्तमान् अङ्काञ्च भवान् लब्धा। एवमेव वर्तन्ते अनेकानि उदाहरणानि दैनन्दिने जीविते

अध्यात्मसाधनायामपि मनसः साम्राज्यं दरीदृश्यते। अद्य मम मनो ध्यानं कर्तुमिच्छति, ह्यो मम मनो वेदान्तपठने निरायासं लग्नमभूत्, अतो मया तत्तत् कार्यं कृतम्

अथ नाहं मन इति वेदान्तोपदेशः। सामान्येन दृश्यत्वानुमानेन अपि इदं तत्त्वम्, अस्माकं मनसो वैलक्षण्यम्, स्फुटमस्ति। एवं ज्ञाते सति अपि एतस्य तत्त्वस्य विस्मरणात्, विपरीतभावनाया उदयात्, इन्द्रियजन्यसुखे प्रीतिबुद्धिकारणाच्च वयं मनोऽनुसरामः

अत्र एव अस्ति अभ्यासस्य वैराग्यस्य च आवश्यकता। वैराग्यादपि प्राधान्यम् अभ्यासस्य अस्ति साधनायाः प्रारम्भिके चरणे इति मे मतिः। मम मनो यत् किमपि वाञ्छेत्, मम तु एतस्मिन् काले इदमेव कार्यं श्रेयस्करम्, अतोऽहमिदमेव कार्यं करोमि न अन्यत् किमपि। मम मनो लग्नं भवति न वा इति नास्ति मम काऽपि चिन्ता। प्रातः चतुर्वादने उत्थाय ध्यानं कर्तव्यमिति मम कृते वरम् अतोऽहमेवमेव करोमि। 

एतेनाभ्यासेन मनसः प्राधान्यं अस्माकं जीविते न्यूनीक्रियते। तस्य सम्यग्निवारणं तु अविद्यानाशेन एव भवति किन्तु अभ्यासस्य आवश्यकता महती अस्ति मनस: साम्राज्यस्य न्यूनीकरणे। सदा अस्माभिरेतस्य अभ्यासस्य माहात्म्यं स्मर्तव्यम्अध्यात्मविद्यायां मम महत् पाण्डित्यं वर्तते इति सूक्ष्माभिमानात् कदापि न अभ्यास उपेक्षणीय:। मया तु साधनायां महती प्रगति: सम्पादिता इति एतेनापि अभ्यासो नावहेलनीयः:। अभ्यासो मम कृते अमृतमिति मत्वा अभ्यासोऽनुष्ठेयः                              

   

मुमुक्षुतायाः चरमोत्कर्षे मुमुक्षुत्वमपि त्यक्तव्यम्!

मोक्षार्थिभि: चत्वारि साधनानि सम्पादनीयानि इति वेदान्तग्रन्थेषु सर्वत्र लभ्यते। तत्र विवेकवैराग्यशमादिषट्कसम्पत्तिमुमुक्षुत्वम् इति साधनचतु...