Sunday, May 24, 2026

मुमुक्षुतायाः चरमोत्कर्षे मुमुक्षुत्वमपि त्यक्तव्यम्!

मोक्षार्थिभि: चत्वारि साधनानि सम्पादनीयानि इति वेदान्तग्रन्थेषु सर्वत्र लभ्यते। तत्र विवेकवैराग्यशमादिषट्कसम्पत्तिमुमुक्षुत्वम् इति साधनचतुष्टयम्। 

ब्रह्म सत्यं जगन्मिथ्या इति निश्चयो विवेक इति शब्देन कथ्यते। अत्र नित्यानित्यवस्तुविवेके अनित्य इति शब्दो मिथ्यात्वबोधक इति अवधेयम्। अनित्यसुखस्य मूढै: काम्यमानत्वात्, स्वाप्निकमिथ्यासुखस्य अकाम्यमानत्वाद्वेदान्तेषु ब्रह्म नित्यं जगदनित्यमिति अनभिप्रेत्य ब्रह्म सत्यं जगन्मिथ्या इति एव लभ्यते। एतस्मादेव विवेकाद्वैराग्यस्य प्राप्तिर्भवति। नात्र भ्रमितव्यं यद्दृश्यजगतोऽनित्यत्वबोधनात् किमपि फलं न जायते। उत्पद्यते तस्माद्बोधनादपि वैराग्यं किन्तु दृश्यजगतो मिथ्यात्वनिश्चयादृते न तद्वैराग्यं दृढतामाप्नोति। अत एव जगतो मिथ्यात्वनिश्चय: सम्पादनीय:। 

वैराग्यं नाम ऐहिकामुष्मिकपदार्थेषु जुगुप्सा। एते सर्वे पदार्था अनित्या मिथ्याभूता:। ते सन्ति सर्वथा उपेक्षणीया: त्यक्तव्या:। एतै: सह मम सम्बन्ध: कदापि न जायेत, एतेषु सत्यत्वबुद्धिर्मम कदापि न भवेदिति जुगुप्साजनितो भावो वैराग्य इति कथ्यते।

अथ शमादिषट्कसम्पत्तौ शमो नाम वैराग्योत्तरी मनस: स्वलक्ष्ये सगुणे निर्गुणे वा ब्रह्मणि निर्विकारा निश्चला अवस्थिति:। अयं शमो वैराग्यजन्य:। वैराग्यस्य विवेकजन्यत्वं प्रागेव उक्तम्। विषयेषु पुन: पुन: दोषदर्शनञ्च वैराग्यलाभे महद्भूमिका वहति। येन केनापि प्रकारेण वैराग्यं जायेत, तन्निश्चयेन सम्पादनीयम् इति भाव:। तस्माद्वैराग्यात् शमो जायते

इन्द्रियाणां विषयेभ्य: शब्दादिरूपविषममार्गेभ्य: पराङ्गमुखीकरणं स्वगोलके स्थापनञ्च दम इति उच्यते

एवं यदा इन्द्रियाणि सम्यक्तया निगृहीतानि तदा मनो विषयाकारपरिणामं परित्यज्य निश्चलस्थितिर्लभते। सा स्थिति: उपरति: इति संज्ञया निर्दिश्यते। 

सर्वदुःखानां चिन्ताविलापरहितम् अप्रतीकारपूर्वकञ्च यत् सहनं तत् तितिक्षा इति कथ्यते। अस्यां तितिक्षायां विवेकवैराग्यशमदमोपरतीत्यादीनां सर्वेषां साहाय्यं भवति। 

तत्त्वमस्यादिशास्त्रे तदनुसारिगुरुवाक्ये च दृढविश्वासोपेता सत्यत्वबुद्धि: श्रद्धा इति शब्देन निगद्यते। तया श्रद्धया पुरुष: वेदान्तानुसारिणि साधनमार्गे प्रवर्तते। 

अथ शम इति शब्देन संकल्पविकल्पात्मकस्य मनस: स्वलक्ष्ये निर्विकारा स्थिति: कथ्यते इति उक्तम्। सम्प्रति समाधानम् इति शब्देन अध्यवसायात्मिकाया बुद्धे: शुद्धे निरुपाधिके ब्रह्मणि सर्वदा सम्यक्तया स्थापनं उच्यते। 

एवं शमदमोपरतितितिक्षाश्रद्धासमाधानमिति शमादिषट्कसंपत्ति: साधनचतुष्टये तृतीयं साधनम्। 

अधुना मुमुक्षुत्वं विवेचनीयम्। अहंकारादारभ्य यत् किञ्चित् वस्तु आत्मत्वेन अस्माभिर्गृहीतं तत् सर्वम् अस्मान् दृढपाशेन बध्नाति। अयं बन्धो दृश्यत्वान्मिथ्या मिथ्यात्वादात्माज्ञानजन्यश्च। एतस्माद्बन्धान्मोचनम् अत आत्मज्ञानादेव भवितुं शक्यते, अज्ञानस्य ज्ञाननिवर्त्यत्वात्। आत्माज्ञानजन्याद्बन्धादात्मज्ञानेन मोक्तुम् इच्छा मुमुक्षुता इति संज्ञया निर्दिश्यते। सेयं मुमुक्षुता त्रिविधा, मन्दा मध्यमा तीव्रा च। यदा साधनचतुष्टये द्वितीयतुरीययो: तन्नाम वैराग्यमुमुक्षुत्वयो: तीव्रत्वं वर्तते तदैव शमादयोऽर्थवन्त: फलवन्तश्च। वैराग्यस्य तीव्रत्वे सत्येव शमादयोऽर्थवन्त:, मुमुक्षुत्वे तीव्रत्वे सत्येव शमादय: फलवन्त इति आशय:।          

एतत्सर्वं विवेकचूडामणौ विंशतितमश्लोकादारभ्य प्राय: दशसु श्लोकेषु विवरीतम्। चन्द्रशेखरभारतीस्वामिभि: कृता व्याख्या अपि अत्र द्रष्टव्या।  

अत्र किञ्चिदालोचनीयम्। साधनचतुष्टये पूर्वपूर्वसाधनस्य उत्तरोत्तरसाधनम्प्रति कारणता वर्तते। एवं मुमुक्षुत्वम्प्रति विवेकवैराग्यशमादीनां सर्वेषां कारणता इति स्फुटम्। अत्र तीव्रमुमुक्षुता एव अभिप्रेता इति अवबोधनीयम्। अथ यदा विवेकवैराग्यशमादीनां चरमोत्कर्षान्मुमुक्षुता तीव्रत्वम् आप्नोति, यदा बन्धस्य श्वासावरोधकत्वं स्फुटं दृश्यते, यदा दृश्यते हस्तामलकवदस्माकं बन्धोऽस्माकं दीनता च, तदा अस्माभिर्बन्धान्मोक्तुं सत्यप्रयत्न: प्रथमतया क्रियते। तदा इदम्प्रथमतया आत्मज्ञानस्य महत्त्वन्दृश्यते। किं वदति मम गुरु:, किमाम्नायते शास्त्रै:! मम बन्धो मिथ्या इति! अहङ्कारे बुद्धौ शरीरे च मम आत्मभावो मिथ्या इति। तर्हि अहं नास्मि किमपि एतन्दृश्यम्, नास्ति पुन: मम कोऽपि सम्बन्ध एतैर्दृश्यै: सह। अथ एवं मम बन्ध एव नास्ति तर्हि किमर्थं कस्माच्च अहं मोक्तुं प्रयते?

इदं सर्वं दृश्यमुपेक्षणीयम्। न मम बन्धोऽस्ति न पुन: मोक्षो वा। मम पुरत: मया सह सम्बन्धरहितानि दृश्यानि प्रचलन्ति। तानि प्रचलन्तु नाम। न तेन मम कापि हानि: कोऽपि लाभो वा

एवं मुमुक्षुता अपि त्यक्ता भवति। 

इदन्तत्त्वं कठोपनिषदोऽपि ज्ञातुं शक्यते। तत्र प्रथमाध्याये द्वितीयवल्ल्या: चतुर्विंशतितमे मन्त्रे श्रुत्या आम्नायते "नाविरतो दुश्चरितान्नाशान्तो नासमाहित:। नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात्॥" इति। अत्र प्रकृतम् आत्मा केन पुरुषेण प्राप्तुमशक्य: इति व्याख्यातम्। नायमात्मा पापकर्मणोऽनुपरतेन पुरुषेण लभ्यते। इन्द्रियेषु आसक्तमनसा अशान्तेन पुरुषेण अपि अयमात्मा न प्राप्यते। तथैव य: पुरुषोऽसमाहितोऽस्ति तन्नाम य एकाग्रमना नास्ति, विक्षिप्तचित्तोऽस्ति, तेनापि अयमात्मा न प्राप्यते। किञ्च अशान्तमानसो य: पुरुष: तेनापि आत्मा न लभ्य: अत्र अशान्तमानस इति शब्दं व्याख्यायन्तो भाष्यकारा ब्रुवते "समाहितचित्तोऽपि सन्समाधानफलार्थित्वात् नापि अशान्तमानस: व्यापृतचित्तो वा" इति। अत्र अयमाशय: - समाहितचित्तपुरुषोऽपि समाधानस्य फलमिच्छति चेत् तर्हि न तेन आत्मा लभ्यते। समाधानस्य फलमिच्छन् पुरुष: शान्तमना भवितुं न शक्यते मनस: शान्तिरहितत्वादात्मस्वरूपे स्थितिरपि अशक्या एव। अत एव बन्धान्मुक्तेरिच्छा अपि त्यक्तव्या। या कापि इच्छा भवेन्नाम, सा त्यक्तव्या एव। अत: मुमुक्षुत्वस्य चरमोत्कर्षे मुमुक्षुत्वमपि त्यक्तव्यम् इति आशय:

इदमेव तत्त्वम् अष्टावक्रगीतया अपि गीयते "न शान्तिं लभते मूढो यत: शमितुमिच्छति। धीरस्तत्त्वं विनिश्चित्यसर्वदा शान्तमानस:॥" इति।          

             

  

Sunday, April 26, 2026

सर्वं शशविषाणवत्

तेजोबिन्दूपनिषद: पञ्चमाध्यायस्य अयं पञ्चसप्ततितम: श्लोको दृश्यजगत: तस्य द्रष्टुश्च निष्प्रतियोगिकाभावरूपत्वं वर्णयति। दृश्यजगतो निरूपणं शास्त्रेषु त्रिधा लभ्यते। स्वाज्ञदृष्ट्या अस्य जगत: सत्यत्वेन अनुभूतिर्भवति। तामनुभूतिमनूद्य परिणामवादाश्रयात् कुत्रचिज्जगत् सत्यत्वेन निर्दिष्टमस्ति। अथ स्वज्ञदृष्ट्या अस्यैव जगतो निरूपणं मिथ्यात्वेन भवति। अत्र दृष्टान्ता रज्जुसर्पादय:। अथ पुनः पारमार्थिकदृष्ट्या जगतो न मिथ्यात्वं प्रत्युत शशविषाणवत् निष्प्रतियोगिकाभावरूपत्वमेव। इदमेव तत्त्वमयं श्लोक: प्रतिपादयति। न अत्र भ्रमितव्यं यत् द्रष्टुरपि दृश्यवत् स्वरूपेण निषेध: श्रुत्या अभिप्रेत:। द्रष्टुर्द्रष्टृत्वस्य एव निषेध: प्रतिपादित:, तस्य अविद्याप्रयुक्तत्वात्। पारमार्थिकदृष्ट्या अयं द्रष्टा आरोपितद्रष्टृत्वरहितत्वेन स्वप्रकाशतया वर्तते इति आशय:।


Saturday, April 25, 2026

अनित्यं सर्वमेवेदम्!

अस्मिञ्जगति बहूनि वस्तूनि सन्ति यै: सह वयमस्माकं सम्बन्धो वर्तते इति मन्यामहे। इदं शरीरं मम, अयं मम तनय:, इयं मम सुता, इयं मम भार्या, इदं मम गृहम्, इदं मम वित्तमित्यादय: सन्ति मम पदार्थै: सह केचन सम्बन्धा:। एतेभ्य: सम्बन्धकारणेभ्य: शरीरापत्यभार्याणां सुखदुःखयो: अहं सुखदुःखे अनुभवामि। गृहवित्तयोर्लाभे स्वकीयस्य लाभोऽनुभवामि

अत्र सरलतया एतं तु अवगन्तुं शक्नुम एव वयं यदेते सर्वे अनित्या:। शरीरं भवतु, भार्या भवतु, अपत्यानि भवन्तु, वित्तगृहशरीराणि भवन्तु वा, ते सर्वे अनित्या एव। अद्य सन्ति, परेद्युर्भवितारो न वा इति वक्तुं न शक्यते। माता अद्य अस्ति, परेद्यु: सा कुत्रापि न दृश्यते। क्व गता सा? कुत्रापि न दृश्यते। तस्या वाचो न श्रूयन्ते। गृहं ह्यो मया दृष्टम्, अद्य न दृश्यते, भूकम्पे नष्टं जातम्। इदं शरीरं, यस्मिन् आसीन्मम महदभिमान:, अद्य जराजीर्णमस्ति, कीदृशी कुरूपता आगता अस्मिन्! अहो! सत्यम्! एते सर्वे मम सम्बन्धिन: सुतरामनित्या:    

अथ न केवलं तेषामनित्यत्वम्, प्रत्युत तेषां दोषदूषितत्वमपि विद्यते। आध्यात्मिकाधिभौतिकाधिदैविकतापैर्दूषिता मम सम्बन्धिनो मयि अपि शोकं तापञ्च जनयन्ति  

न किमपि सारं वर्तते अत्र। यद्वस्तु अद्य वर्तते, परेद्युर्वर्तते न वा इति वक्तुं न शक्यते चेत् तर्हि किं सारं तत्र? न किमपि सारं तत्र। एतस्मात् सारहीनत्वात् पुन: तेषां हेयत्वम् हेयत्वात् निन्दितत्वम्   

एतेषु रम्यमानोऽहमसारेषु सारं पश्यामि हेयेषु उपादेयत्वं पश्यामि अहो मम मूढता यदनित्येषु नित्यत्वं वाञ्छामि! 

एतेषां दृश्यानामनित्यत्वमवगच्छन् तान् प्रति तीव्रवैराग्यञ्जायते को लाभ: तेभ्यो मम! तै: सह मम सम्बन्धे सति केवला हानिरेव वर्तते    

एवं दृश्यानां सर्वेषां अनित्यत्वं तापत्रितयदूषितत्वमसारत्वं निन्दितत्वं हेयत्वञ्च जानन् तेभ्यो विमुखता जायते, क्रमेण शान्तिर्लभ्यते 

अष्टावक्रगीता नवमाध्याये इदन्तत्त्वं श्लोकरूपेणोपदिशति -

अनित्यं सर्वमेवेदं तापत्रितयदूषितम् ।

असारं निन्दितं हेयमिति निश्चित्य शाम्यति ॥ ३ ॥

Thursday, April 23, 2026

एको द्रष्टाऽसि!

द्रष्टुरेकत्वमद्वैतवेदान्तस्य मुख्य: सिद्धान्त:। 

अथ को नाम अयं द्रष्टा। 

अविद्योपहितचैतन्यमिति शास्त्राणि आहु:। तत्र अविद्याया एकत्वाच्चैतन्यस्य अद्वयत्वाच्च अविद्योपहितचैतन्यमेकमेव भवितुं शक्यते इति स्फुटम्। अत एव उच्यते 'एको द्रष्टा असि' इति।

द्रष्टुरुपहितत्वान्न द्रष्टृस्वरूपे अविद्याया: प्रवेश:, उपाधेरुपहितेन सह अनन्वयत्वात्। अथ अविद्यया एव बन्ध:, बन्धस्य विद्यानिवर्त्यत्वात्। अत: अविद्यागन्धरहितस्य साक्षिणो बन्धरहितत्वं नाम मुक्तत्वं स्पष्टम्। अत एव आचार्या ऊचिरे 'मुक्तप्रायोऽसि सर्वदा' इति।

अथ स्वकीये द्रष्टृस्वरूपे अवस्थानं परित्यज्य अविद्यया सह अविद्याकार्यै: सह वा यदा मम द्रष्टुरवस्थानं भवति, तदा अविद्याप्रतिबिम्बेन जीवेन सह बुद्ध्यवच्छिन्नेन प्रमात्रा सह वा तादात्म्यं जायते। एवं तादात्म्याध्यासमवाप्य स्वकीयमेकत्वं विस्मृत्य द्रष्टुर्बहुत्वं मन्यमानोऽहं 'बहवो द्रष्टार:' इति मन्ये। अयमेव तादात्म्याध्यासो बन्ध इति आचार्या ब्रुवते। अन्यस्य द्रष्टुर्दर्शनं अविद्यया सह, बुद्ध्या सह वा अध्यासादृते न भवितुं प्रभवति। अत एव सूक्तं द्रष्टृबहुत्वं बन्ध इति।

अयं भाव: - भवान् न एतानि दृश्यानि। भवान् एतेषां सर्वेषां दृश्यानामेको द्रष्टा अस्ति, साक्षी अस्ति। अध्यासरूपो बन्धोऽपि दृश्यमेव, भवान् तस्य अपि द्रष्टा। अत एव भवान् सर्वदा मुक्त:, भवत्स्वरूपे बन्धस्य अभावत्वात्।

एवं विचारिते स्वकीये स्वरूपे मम अवस्थितिर्लभ्यते। 



Wednesday, April 22, 2026

अज्ञानस्य अज्ञानप्रयुक्तत्वम्


अज्ञानस्य अज्ञानप्रयुक्तत्वं नाम किम्? 

अज्ञाने स्थित्वा एव अज्ञानस्य कल्पना भवति इति अज्ञानस्य अज्ञानप्रयुक्तत्वम्।

मम स्वरूपं यत् शुद्धाद्वयं निरवच्छिन्नम् अखण्डानन्तं चैतन्यम्, तदज्ञानेन आवृतम् इति कल्पना अज्ञाने स्थित्वा एव भवति। तत्त्वदृष्ट्या अज्ञानस्य न कथमपि आञ्जस्यम् इति सम्बन्धवार्तिके षट्सप्तत्यधिकशततमे श्लोके सुरेश्वराचार्यैर्विवरीतम्।

[नाविद्याऽस्येत्यविद्यायामेवाऽऽसित्वा प्रकल्प्यते। ब्रह्मदृष्ट्या त्वविद्येयं न कथञ्चन युज्यते]

तर्हि शुद्धचैतन्यम् आवृतं न वा? अस्ति तस्य आवृतत्वं चेत् कथम् एतस्य अज्ञानस्य कल्पितत्वम् अज्ञानप्रयुक्तत्वम् वा, नास्ति चेत् कथं मम अखण्डानन्तं स्वरूपं न प्रकाशते? कथमहं मां देशकालावच्छिन्नत्वेन अनुभवामि?

अत्र बोध्यम् - नास्ति भवदुपरि किमपि आवरणम्। अस्ति आवरणम् इति भवत: कल्पना। न प्रकाशते मम निरवच्छिन्नं स्वरूपम् इति अपि भवत: कल्पना। किं बहुना अज्ञानम् अपि भवत: कल्पना। अस्तित्वहीनेन कल्पितेन अज्ञानेन अज्ञानप्रयुक्तस्य आवरणस्य अपि कल्पना भवति। 

तर्हि प्रकाशते एव मम निरवच्छिन्नं स्वरूपम्। मिथ्याज्ञानकारणात् स्वं स्वान्यत्वेन मत्वा मम स्वरूपम् अखण्डानन्तं नास्ति न प्रकाशते इति कल्प्यते।

एवं श्रीमहर्षेर्वाक्यं अस्माभिरवगन्तव्यम्।

Tuesday, April 21, 2026

जीवस्य साक्षिणो वैलक्षण्यम्

जीवो नाम चैतन्य-आभास-युक्त अहङ्कार:। अयमेव जीव: चिदाभासविशिष्टाहङ्कार इति शब्देन परिभाषित:। अयं जीव: कर्ताभोक्तारूपेण शास्त्रे व्यवह्रियते।

अथ साक्षी जीवभिन्न: कूटस्थचैतन्यम्। प्रतिबिम्बरूप आभासरूपो वा जीव:, अयं साक्षी तु बिम्बचैतन्यम्। कूटस्थत्वाद् अस्य साक्षिणो निर्विकारत्वम् उदासीनत्वं बोधृत्वञ्च। 

दर्पणे अविद्यमाने यथा मुखं मुखमात्रत्वेन वर्तते, दर्पणे आनयने सति यथा तस्य एव मुखस्य बिम्ब इति प्रतिबिम्ब इति संज्ञा भवति, तथैव उपाधौ अविद्यमाने चैतन्यमात्रत्वेन स्थितं शुद्धचैतन्यम् उपाधौ सति साक्षी इति जीव इति संज्ञया व्यवह्रियते।

नृत्यशालास्थदीपदृष्टान्तेन साक्षी जीवाद्विविच्य विद्यारण्यस्वामिभिर्दर्शित:। स: श्लोक अवधानेन स्मरणीयं तस्य तत्त्वावबोधे महत्त्वत्वात्।

नृत्यशालास्थितो दीप: प्रभुं सभ्यांश्च नर्तकीम्। 

दीपयेदविशेषेण तदभावेऽपि दीप्यते॥

(पञ्चदशी १० । ११)

अत्र प्रभु: अहङ्कारतुल्य:, सभ्या: विषया:, नर्तकी बुद्धि: इति बोध्यम्। दीप: साक्षी इति तु स्फुटम्।

इदं जीवसाक्षिणोर्वैलक्षण्यं सिद्धान्तलेशसङ्ग्रहे द्विपञ्चाशदधिकशततमे पुटे विवरीतम्।

Sunday, April 19, 2026

निर्द्वन्द्वो निरायासः

मन: कथं विक्षेपम् आप्नोति इति विचारिते सति इदं लभ्यते यद् द्वन्द्वम् एव मनसो विक्षोभे कारणम्।

अथ किं नाम इदं द्वन्द्वम्? 

मया इदं कृतम्, इदम् अधुना अपि कर्त्तव्यम् इति एव द्वन्द्वस्य स्वरूपम्। सुखदु:खादीनां शीतोष्णादीनां च द्वन्द्वानां मूले अपि इदमेव वर्तते। 

सुखं मया प्राप्तव्यम्, दु:खं दूरीकर्त्तव्यम्, ग्रीष्मे शीतं प्राप्तव्यम्, शीते उष्णता प्राप्तव्या इत्यादय: स्फुटा:।

अथ इदं कृतम्, इदं कर्त्तव्यम् इति बुद्धिर्यावत्कालं तिष्ठेत् तावत् मनसो विक्षोभ: अपि तिष्ठेदेव। सुखेन अवस्थानम् अपि भवितुं न शक्यते। 

धर्मार्थकाममोक्षेषु सर्वेषु अपि पुरुषार्थेषु यदा अपेक्षाया हानिर्जायते, यदा कार्यकारणभावस्य मिथ्यात्वावगमाद् आयासस्य मिथ्यात्वनिश्चयो जायते, तदा गलितसर्वाश: अहं मम स्वकीये निरायासे स्वरूपे सहजतया वर्ते।

मुमुक्षुतायाः चरमोत्कर्षे मुमुक्षुत्वमपि त्यक्तव्यम्!

मोक्षार्थिभि: चत्वारि साधनानि सम्पादनीयानि इति वेदान्तग्रन्थेषु सर्वत्र लभ्यते। तत्र विवेकवैराग्यशमादिषट्कसम्पत्तिमुमुक्षुत्वम् इति साधनचतु...