हन्त कथं त्वया गीताया: श्लोको न स्मर्यते यत् नास्ति तव अधिकार: कर्मफलप्राप्तौ। तव अधिकारस्तु भगवद्वचनानुसारेण अस्ति कर्ममात्रेषु एव खलु। किमर्थं त्वया प्राप्तफलस्य अभीष्टत्वमनभीष्टत्वं वा चिन्त्यते। भगवत्प्रसादात् प्राप्तं फलं किमपि भवेत् नाम, न तेन तव किमपि प्रयोजनम्।
तव यानि कर्माणि कर्तव्यानि आसन्, तानि ईश्वरार्पितबुद्ध्या त्वया कृतानि न वा? यदि कृतानि तर्हि का चिन्ता तव? त्वया तु तवाधिकारक्षेत्रेषु सम्यग्व्यवहृतम्। अधुना स्वस्य अनधिकारक्षेत्रे मा प्रविश। पुन: यदि ईश्वरार्पितबुद्ध्या त्वया पुरा कर्माणि न कृतानि, तथापि चिन्ता न कार्या। इत आरभ्य तथा कुरु।
फलदाता भगवान् यत् किमपि फलं दद्यात्, न तस्य अन्वेषणं मननं वा कार्यम्। अधुना संप्रति त्वया किङ्करणीयम् इति एव चिन्तनीयम्। कर्मकर्तृत्वं तव अस्ति, फलदातृत्वं पुन: भगवतोऽयमेव भक्ते: सिद्धान्त:। इयमेव भक्तिर्गच्छता कालेन पराज्ञाननिष्ठारूपा भूत्वा त्वां तव निजात्मस्वरूपे स्थापयति।
मा बिभिष्व, शोकं त्यज, सुखी भव!!
No comments:
Post a Comment