Wednesday, September 10, 2025

कर्मण्येवाधिकारस्ते

मदभीष्टं मया न प्राप्तम्, अनभीष्टञ्च अहं प्राप्तवान् प्राप्स्यामि वा। अत एव अहं घोरे संसारसागरे दु:खजलधौ च निमज्जामि इति एतावती एव कथा सांसारिकाणाम्। 

हन्त कथं त्वया गीताया: श्लोको न स्मर्यते यत् नास्ति तव अधिकार: कर्मफलप्राप्तौ। तव अधिकारस्तु भगवद्वचनानुसारेण अस्ति कर्ममात्रेषु एव खलु। किमर्थं त्वया प्राप्तफलस्य अभीष्टत्वमनभीष्टत्वं वा चिन्त्यते। भगवत्प्रसादात् प्राप्तं फलं किमपि भवेत् नाम, न तेन तव किमपि प्रयोजनम्। 

तव यानि कर्माणि कर्तव्यानि आसन्, तानि ईश्वरार्पितबुद्ध्या त्वया कृतानि न वा? यदि कृतानि तर्हि का चिन्ता तव? त्वया तु तवाधिकारक्षेत्रेषु सम्यग्व्यवहृतम्। अधुना स्वस्य अनधिकारक्षेत्रे मा प्रविश। पुन: यदि ईश्वरार्पितबुद्ध्या त्वया पुरा कर्माणि न कृतानि, तथापि चिन्ता न कार्या। इत आरभ्य तथा कुरु  

फलदाता भगवान् यत् किमपि फलं दद्यात्, न तस्य अन्वेषणं मननं वा कार्यम्। अधुना संप्रति त्वया किङ्करणीयम् इति एव चिन्तनीयम्। कर्मकर्तृत्वं तव अस्ति, फलदातृत्वं पुन: भगवतोऽयमेव भक्ते: सिद्धान्त:। इयमेव भक्तिर्गच्छता कालेन पराज्ञाननिष्ठारूपा भूत्वा त्वां तव निजात्मस्वरूपे स्थापयति। 

मा बिभिष्व, शोकं त्यज, सुखी भव!!   

 

No comments:

मुमुक्षुतायाः चरमोत्कर्षे मुमुक्षुत्वमपि त्यक्तव्यम्!

मोक्षार्थिभि: चत्वारि साधनानि सम्पादनीयानि इति वेदान्तग्रन्थेषु सर्वत्र लभ्यते। तत्र विवेकवैराग्यशमादिषट्कसम्पत्तिमुमुक्षुत्वम् इति साधनचतु...