Saturday, November 22, 2025

ब्रह्मविद्यया सर्वात्मभावस्य प्राप्ति:

ब्रह्मविद्यया अज्ञानकल्पितस्य असर्वत्वस्य निवृत्तिर्भवति, सर्वात्मभावस्य प्राप्तिर्भवतीति बृहदारण्यकोपनिषदि प्रथमाध्यायस्य चतुर्थे ब्राह्मणे विस्तरेण व्याख्यातम्। तत्र केचन संशया उपस्थापयन्ति यत् केवलया ब्रह्मविद्यया मनुष्याणां सर्वात्मभावस्य प्राप्तिर्न भवितुं शक्यते, उत्तमत्वानुष्ठानकालदेवतानुग्रहाणाम् अभावात्। तत् कथमिति पृष्टे सति ते वचन्ति - दृश्यताम् -

यथा वेदानां फलदातृत्वं तु विप्राणां प्रति अस्ति न तु शूद्राणां प्रति, तेषाम् उत्तमत्वाभावात्, तथैव ब्रह्मविद्यया सर्वात्मभावप्राप्तिरपि देवादीनामेव भवितुं शक्यते न तु मनुष्याणाम्, तेषु उत्तमत्वाभावात्। 

Sunday, November 16, 2025

दृश्यन्तामेतानि दृश्यानि

दृश्यस्य मिथ्यात्वम् अनुमानप्रमाणात् श्रुतिप्रमाणाद्वा यदा अवगम्यते तदा कार्यकारणभावस्य अपि मिथ्यात्वम् एतेन अवगम्यते। यतो जाग्रद्दृश्यं सर्वं स्वप्नदृश्यवद् मिथ्या अस्ति, तस्मादस्माभिर्दृष्ट: कार्यकारणभावोऽपि तथैव मिथ्या अस्ति। नास्ति तर्हि कोऽपि कार्यकारणभावो दृश्ययोर्मृत्तिकाघटयोर्मध्ये। यथा स्वप्ने स्वप्नदृश्यमृत्तिकाघटयोर्मध्ये कोऽपि कार्यकारणसम्बन्धो नासीत्, उभयोर्मिथ्यात्वात्, कार्यकारणसंबन्धस्य दृश्यत्वाच्च, तथैव जाग्रति अपि जाग्रद्दृश्यमृत्तिकाघटयोर्मध्ये कोऽपि कार्यकारणसम्बन्धो नास्ति 

अतो मम पुरतो दृश्यमानानां वस्तूनां किमपि कारणं नास्ति, तेषां प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वात् पटस्य कारणं तन्तुर्नास्ति, प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वात्। पटस्य अधिकरणं तन्तुरिति दृश्यते। पटस्य मिथ्यात्वात् तन्तौ पटस्य त्रैकालिकनिषेधो भवेदेव यतो यत्र पटो भासते, तत्रैव सो नास्ति, अत: का कथा तस्य पटस्य कारणस्य इदं वेदान्तपरिभाषायां प्रपञ्चितम् अनुमानप्रमाणप्रकरणे "अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी, पटत्वात्, पटान्तरवत्" इति। एवमवगम्यते यद्दृश्यमानस्य क्षेत्रस्य किमपि कारणं नास्ति। यत् कारणत्वेन भाति, तत् नास्ति कारणम्, कारणत्वेन तस्य प्रतिभानमात्रमेव भवति

एवम् अधुना अनुभूयमानस्य मम सुखस्य नास्ति कारणं मयाचरितो धर्म:। मम दु:खस्य कारणं नास्ति मयाचरितोऽधर्म:। मम सुखदु:खे स्तो मिथ्या दृश्ये, नास्ति कोऽपि लाभस्तयो: कारणान्वेषणेन मम मनसि या इच्छा जायते, य: क्रोधो जायते, यो द्वेषो जायते, ते सर्वे सन्ति ज्ञातैकसत्तावन्ति दृश्यानि। तेषां कारणान्वेषणे किमपि न लभ्यते, तेषां कारणानाम् अभावात्

एवं सति मया किङ्कर्तव्यम्?

दृश्यन्ताम् एतानि दृश्यानि। तानि बुद्बुद्वद्जायन्ते, क्षणं यावत् तिष्ठन्त: पुन: तानि विलीयन्ते। दृश्यन्तां तेषां प्रादुर्भाव: स्थितिर्विलयश्च। किञ्चित् चलच्चित्रं प्रचलति भवत: पुरत:, दृश्यतां एतत्

भवान् नास्ति दृश्यम्, भवान् अस्ति एतेषां दृश्यानां द्रष्टा। अत एव दृश्यन्तामेतानि दृश्यानि                 

Wednesday, November 5, 2025

योगवेदान्तयोर्मध्ये विशेष:

योगशास्त्रे असंप्रज्ञातसमाधिना, पुन: वेदान्तशास्त्रे ब्रह्मज्ञानेन निरतिशयानन्दस्वरूपस्य आत्मन: साक्षात्कार: प्रतिपादित:। यथा चित्तवृत्तिनिरोधरूपो योगोऽसंप्रज्ञातसमाध्याख्य: साक्षिण आत्मन: साक्षात्कारे हेतुत्वं वहति, तथैव ब्रह्मज्ञानमपि इति योगवासिष्ठे वर्णितम्। तत्र भगवान् वसिष्ठ उवाच - 

द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव। योगो वृत्तिनिरोधो हि ज्ञानं सम्यगवेक्षणम्।।

असाध्य: कस्यचिद्योग: कस्यचित्तत्त्वनिश्चय:। प्रकारौ द्वौ ततो देवो जगाद परम: शिव:।। इति।

योगशास्त्रे चित्तं परमार्थवस्तु इति स्वीकृतम्। एवं तर्हि साक्षिमात्रस्य साक्षात्कारस्तु तदैव भवितुं शक्यते यदा चित्तस्य चित्तदृश्यस्य च अप्रतीतिर्भवेत्। यत: संप्रज्ञातसमाधौ आत्मैकाकारवृत्तिप्रवाहयुक्तं अन्तःकरणं साक्षिणा अनुभूयते, अतो न तत्र चित्तस्य अप्रतीति:, न पुन: साक्षिण: साक्षात्कारो वा भवितुं शक्यते। किन्तु असंप्रज्ञातसमाधौ चित्तं सर्वथा निरुद्धं भवति, न तत्र काऽपि वृत्तिरवशिष्यते। एवं सति संस्कारमात्ररूपेण स्थितमपि चित्तं न साक्षिणा अनुभूयते। अयमेव विशेष एतयो: समाध्योर्मध्ये। अथ यतोऽसंप्रज्ञातसमाधौ चित्तं चित्तदृश्यञ्च न साक्षिणा अनुभूयेते, अत: स्वप्रकाशसाक्षिमात्रस्य प्रकाश: तस्यामवस्थायाम्भवति

वेदान्तशास्त्रे किन्तु न एवंरूपा प्रक्रिया। अत्र चित्तस्य अपि कल्पितत्वमङ्गीकृतम्। चित्तस्य कल्पितत्वे सति, अकल्पितस्य अधिष्ठानस्य ज्ञानमात्रात् रज्जुसर्पवत् कल्पितस्य चित्तस्य अप्रतीतिर्भवति। न तस्य कृते कोऽपि समाधिरनुष्ठेय:। एतस्मात् कारणात् भाष्यकारै: कुत्रापि आत्मसाक्षात्काराय योगापेक्षा समाध्यपेक्षा न प्रतिपादिता, किन्तु ब्रह्मज्ञानं अधिष्ठानज्ञानमेव कारणत्वेनाङ्गीकृतम्। अधिष्ठानज्ञानात् कल्पितस्य प्रपञ्चस्य अदर्शनत्वे सति शुद्धात्मन आनन्दात्मक: प्रकाशो भवति इति प्रक्रिया   

अयं विशेषो योगवेदान्तयोर्मध्ये। इदन्तत्त्वङ्गूढार्थदीपिकायां षष्ठाध्यायस्य एकोनत्रिंशत्तमे श्लोकव्याख्याने विवरीतम्    

मुमुक्षुतायाः चरमोत्कर्षे मुमुक्षुत्वमपि त्यक्तव्यम्!

मोक्षार्थिभि: चत्वारि साधनानि सम्पादनीयानि इति वेदान्तग्रन्थेषु सर्वत्र लभ्यते। तत्र विवेकवैराग्यशमादिषट्कसम्पत्तिमुमुक्षुत्वम् इति साधनचतु...