Tuesday, September 9, 2025

ज्ञानोत्तरकाले विद्यास्मृतिः

नैष्कर्म्यसिद्धेः प्रथमाध्यायस्य अष्टात्रिंशत्तमे श्लोके (१.३८ तमे) वर्णितः सिद्धान्तोऽत्र प्रस्तूयते –

पूर्वपक्षी – सम्यग्ज्ञानम्प्रमाणेभ्यो जायते, असम्यग्ज्ञानन्तु अप्रमाणेभ्य इति संप्रतिपन्नम्। तत्र सम्यग्ज्ञानमसम्यग्ज्ञानाद्बलवदिति भवता स्वीकृतम्। तथापि इदमवश्यं स्वीकरणीयं यदसम्यग्ज्ञानेन सम्यग्ज्ञानम्बाध्यते।

सिद्धान्ती – कथमेतद् निश्चीयते?

पूर्वपक्षी – दृश्यताम्। कर्तृत्व-भोक्तृत्व-राग-द्वेषादयो ये द्वैतप्रत्ययाः सन्ति, ते सर्वे अज्ञानोत्था इति सम्प्रतिपन्नम्। पुनः इदमपि सम्प्रतिपन्नं यत् सम्यग्ज्ञानवत्सु ज्ञानिषु अपि रागद्वेषादयो द्वैतप्रत्यया आविर्भवन्ति। अत्र सम्यग्ज्ञान-द्वैतप्रत्यययोर्विरोधस्तु सुप्रसिद्धः। यदि सम्यग्ज्ञानस्य तत्त्वज्ञानिषु बाधो न स्वीक्रियते, तर्हि विरोधिनां द्वैतप्रत्ययानां तत्र आविर्भावः कथं व्याख्यायते। अत एव इदं स्वीकरणीयं यत् उत्पन्नपरमार्थबोधस्याऽपि सम्यग्ज्ञानम् असम्यग्ज्ञानेन बाधितमेव।

सिद्धान्ती – मैवम्। असम्यग्ज्ञानं सम्यग्ज्ञानेन पूर्वमेव बाधितम्। एवं सति मृतस्य अज्ञानस्य सम्यग्ज्ञानबाधार्थं पुनरुद्भावोऽङ्गीकर्तुं न शक्यते।

पूर्वपक्षी – तर्हि द्वैतप्रत्ययैरेव सम्यग्ज्ञानस्य बाधः स्वीक्रियताम्।

सिद्धान्ती – मैवम्। द्वैतप्रत्ययानाम् अपि सम्यग्ज्ञानबाधकत्वं न भवितुं शक्यते।

पूर्वपक्षी – कुतो न शक्यते?

सिद्धान्ती – अवलोक्यताम्। सम्यग्ज्ञानस्य नाम विद्याया अविद्याबाधकत्वन्तु प्रसिद्धम्। अथ अस्या विद्यायाः संस्काराः, तज्जन्याः प्रत्यया अपि स्वीकरणीयाः। एते बाधक-विद्या-संस्कार-जनित-प्रत्यया द्वैत-प्रत्ययापेक्षया बलवन्ताः। ते एव द्वैतप्रत्ययान् उपमर्दयन्ति। सम्यग्ज्ञानस्य क्षति: कर्तुं द्वैतप्रत्यया न समर्था भवेयुः।

अथ वा द्वैतप्रत्यया अविद्यावासनाजन्या द्वैतस्मृतयः। न तैः विद्याया बाधं भवितुं शक्यते।

सारांशः

तत्त्वज्ञानोत्तरकाले अपि विपरीतप्रत्यया जायन्ते एव। कर्तृत्व-भोक्तृत्व-राग-द्वेषादयानां विपरीतप्रत्ययानां प्रारब्धक्षयार्थं प्रारब्धफलभोगाङ्गतया ज्ञानिषु आविर्भावं भवति। इदं न साधु यत् ज्ञानोत्तरकाले ज्ञानिषु ब्रह्मस्वरूपत्वात् कदापि क्वापि रागद्वेषादयानां भाव एव न शक्येत। अत्र इदं ध्यातव्यम् – परमार्थदर्शिना तेषां विपरीतप्रत्ययानां मिथ्यात्वं सम्यग्ज्ञायते। तेषां मृगमरीचिकात्वं जानन् ज्ञानिना ते तिरस्क्रियन्ते। विद्या-संस्कार-जनित-प्रत्ययैर्द्वैतप्रत्यया बाध्यन्ते। अत एव ज्ञानिन आत्मस्वरूपता सुष्ठु निर्बाधतया सुशोभिता तिष्ठति।

सन्दर्भग्रन्थाः

नैष्कर्म्यसिद्धिः १.३८

ननु बलवदपि सम्यग्ज्ञानं सदप्रमाणोत्थेनाऽसम्यग्ज्ञानेन बाध्यमानमुपलभामहे । यत उत्पन्नपरमार्थबोधस्याऽपि कर्तृत्वभोक्तृत्वरागद्वेषाद्यनवबोधोत्थप्रत्यया आविर्भवन्ति । न ह्यबाधिते सम्यग्ज्ञाने -तद्विरुद्धानां प्रत्ययानां सम्भवोऽस्ति।

नैतदेवम् । कुतः-

बाधितत्वादविद्याया विद्यां सा नैव बाधते ।
तद्वासना निमित्तत्वं यान्ति विद्यास्मृतेर्धवम् ॥ ३८ ॥

——————————————————
चित्सुखाचार्यस्य भावतत्त्वप्रकाशिका १.३८

यदुक्तम् “बलवद्धि प्रमाणोत्थम्’ इति, तत्रानुभवविरोधमाशङ्कते — नन्विति । तावता कथं बाधोऽवगम्यत इति, अत आह—न हीति । बाधितस्य बाधकत्वानुपपत्तेर्मैवमिति परिहरति—नैतदेवमिति । अस्तु तर्हि बाधककालादुत्तरकालमुत्पन्नद्वैतप्रत्ययैः विद्याया बाध इत्याशङ्क्य तस्मिन्नपि काले बाधकविद्यासंस्कारजनितप्रत्ययानां बलवत्वात्तेषामेवैतत्प्रत्ययबाधकत्वोपपत्तेर्मैवमिति परिहरति — तद्वासना इति । यद्वा तद्वासनेत्यविद्यावासनाः कथ्यन्ते। अत्रापि स्मृतिं विदुषो जनयन्ति । तेन विद्याया न द्वैतस्मृतिभिरपि बाध इत्यर्थः॥३८॥

—————————————————–
बृहदारण्यकोपनिषद्भाष्यम् १.४.१०

यत्तूक्तं विपरीतप्रत्ययतत्कार्ययोश्च दर्शनादिति, न, तच्छेषस्थितिहेतुत्वात् — येन कर्मणा शरीरमारब्धं तत् , विपरीतप्रत्ययदोषनिमित्तत्वात् तस्य तथाभूतस्यैव विपरीतप्रत्ययदोषसंयुक्तस्य फलदाने सामर्थ्यमिति, यावत् शरीरपातः तावत्फलोपभोगाङ्गतया विपरीतप्रत्ययं रागादिदोषं च तावन्मात्रमाक्षिपत्येव — मुक्तेषुवत् प्रवृत्तफलत्वात् तद्धेतुकस्य कर्मणः ।

No comments:

मुमुक्षुतायाः चरमोत्कर्षे मुमुक्षुत्वमपि त्यक्तव्यम्!

मोक्षार्थिभि: चत्वारि साधनानि सम्पादनीयानि इति वेदान्तग्रन्थेषु सर्वत्र लभ्यते। तत्र विवेकवैराग्यशमादिषट्कसम्पत्तिमुमुक्षुत्वम् इति साधनचतु...