Thursday, September 25, 2025

का बुभुत्सा ते!

इह जगति पदार्थद्वयमेव वर्तते, आत्मा अनात्मा च। न तृतीयं वस्तु कुत्रापि कदापि त्रैलोक्ये दृश्यते। अत्र अनात्मा दृश्यत्वान्मिथ्या एव। मिथ्यात्वाद् रज्जुसर्पवदज्ञानप्रसूतमस्ति अनात्मा। आत्मा तु तद्विपरीतेन एक: शुद्धश्चेतनोऽस्ति, तस्य आनन्दात्मकं स्वकीयं वास्तविकं स्वरूपम्। अनात्मन: स्वरूपन्तु मिथ्या, अविचारिते सति एव तस्य भानं भवति तत्त्वञ्ज्ञाते अनात्मन: त्रैकालिकनिषेधोऽस्ति इति बोधो जायते एवं सति अविद्या अविद्याकार्यम् अविद्याव्याप्यञ्च सर्वं नास्ति किञ्चिदिति अवसीयते 

एवं सति का बुभुत्सा अस्ति तव भ्रात:! "त्वमेकश्चेतन: शुद्धो जडं विश्वमसत्तथा, अविद्याऽपि न किञ्चित्सा का बुभुत्सा तथापि ते" इति वदन्ती अष्टावक्रगीता सकलेभ्योऽनात्मभ्यो दृष्टिं निवारयितुमस्मान् प्रेरयति। यदा सर्वेभ्योऽनात्मभ्यो वयं दृष्टिं निवर्तयाम: तदा तस्मिन् क्षण एव अस्माकं स्वकीये आनन्दबोधात्मके स्वरूपे स्थितिर्भवति! 

इयमेव जीवनस्य परमा गति:!!   

        

        

No comments:

मुमुक्षुतायाः चरमोत्कर्षे मुमुक्षुत्वमपि त्यक्तव्यम्!

मोक्षार्थिभि: चत्वारि साधनानि सम्पादनीयानि इति वेदान्तग्रन्थेषु सर्वत्र लभ्यते। तत्र विवेकवैराग्यशमादिषट्कसम्पत्तिमुमुक्षुत्वम् इति साधनचतु...