इह जगति पदार्थद्वयमेव वर्तते, आत्मा अनात्मा च। न तृतीयं वस्तु कुत्रापि कदापि त्रैलोक्ये दृश्यते। अत्र अनात्मा दृश्यत्वान्मिथ्या एव। मिथ्यात्वाद् रज्जुसर्पवदज्ञानप्रसूतमस्ति अनात्मा। आत्मा तु तद्विपरीतेन एक: शुद्धश्चेतनोऽस्ति, तस्य आनन्दात्मकं स्वकीयं वास्तविकं स्वरूपम्। अनात्मन: स्वरूपन्तु मिथ्या, अविचारिते सति एव तस्य भानं भवति। तत्त्वञ्ज्ञाते अनात्मन: त्रैकालिकनिषेधोऽस्ति इति बोधो जायते। एवं सति अविद्या अविद्याकार्यम् अविद्याव्याप्यञ्च सर्वं नास्ति किञ्चिदिति अवसीयते।
एवं सति का बुभुत्सा अस्ति तव भ्रात:! "त्वमेकश्चेतन: शुद्धो जडं विश्वमसत्तथा, अविद्याऽपि न किञ्चित्सा का बुभुत्सा तथापि ते" इति वदन्ती अष्टावक्रगीता सकलेभ्योऽनात्मभ्यो दृष्टिं निवारयितुमस्मान् प्रेरयति। यदा सर्वेभ्योऽनात्मभ्यो वयं दृष्टिं निवर्तयाम: तदा तस्मिन् क्षण एव अस्माकं स्वकीये आनन्दबोधात्मके स्वरूपे स्थितिर्भवति!
इयमेव जीवनस्य परमा गति:!!
No comments:
Post a Comment