Sunday, September 28, 2025

दृश्यतां विषवह्निवत्

योगवासिष्ठे ४.३५.४ तमे श्लोके महामुनिर्वसिष्ठो भगवन्तं रामं प्रति एवं वक्ति -

किमन्यै: शास्त्रसंदर्भै: क्रियतामिदमेव तु । 

यद्यत्स्वाद्विह तत्सर्वं दृश्यतां विषवह्निवत् ॥ ४ ॥

अयं श्लोकस्तु अध्यात्ममार्गे साधनाकाले बहूपकारीति प्रतीयते। आत्मानं विहाय यत् किमपि वस्तु सुखकरं यदि भाति, तर्हि अयमेव श्लोक: स्मर्तव्य:। इदं वस्तु नास्ति स्वादु, इदं तु विषवह्निवदस्ति। इदं त्याज्यम्। एतेन मम हानिर्भविता।

इदं भोजनं स्वादुतया प्रतीयते? दृश्यतां विषवह्निवत्।

इयं चर्चा मह्यं रोचते? दृश्यतां विषवह्निवत्।

लोके मम महती कीर्तिर्या विद्यते, सा मह्यं रोचते? दृश्यतां विषवह्निवत्।

वित्तम्, अपत्यं मम सुखकरम्? दृश्यतां विषवह्निवत्।

मम अध्यात्मविद्यापाण्डित्यं मां सुखं ददाति? दृश्यतां विषवह्निवत्।

भगवता वासुदेवेनापि गीतायाम् उक्तम् - 

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते। 

आद्यन्तवन्त: कौन्तेय न तेषु रमते बुध:।।

इदं सम्यक्! किन्तु पुनः गच्छता कालेन यदा आत्मविद्या सुदृढा भवति, तदा अनात्मनो मिथ्यात्वनिश्चयेन न तेषु दोषबुद्धिरवशिष्यते। तेषां निरर्थकताया बोधो जायते। मृगमरीचिकायां कस्यापि दर्शनेन किम्!! अनुकूलं वस्तु दृश्यते उत् प्रतिकूलम्, न तेन हानिरस्ति न पुन: लाभ एव! ते सन्ति निरर्थकानि दृश्यानि!!

एवम् अष्टावक्रगीता वक्ति - 

विलसन्ति महाभोगैर्विशन्ति गिरिगह्वरान्।

निरस्तकल्पनाधीरा अबद्धा मुक्तबुद्धय:।१८.५३।

No comments:

मुमुक्षुतायाः चरमोत्कर्षे मुमुक्षुत्वमपि त्यक्तव्यम्!

मोक्षार्थिभि: चत्वारि साधनानि सम्पादनीयानि इति वेदान्तग्रन्थेषु सर्वत्र लभ्यते। तत्र विवेकवैराग्यशमादिषट्कसम्पत्तिमुमुक्षुत्वम् इति साधनचतु...