Monday, September 29, 2025

कार्यकारणभावस्य मिथ्यात्वम्

मृत्तिकायाः कारणत्वम्, घटस्य कार्यत्वञ्च जगति प्रसिद्धे। अस्माभिस्सर्वैरस्माकं नयनयोः पुरतो दृश्यते यत् कुलालो मृत्तिकया घटस्य सृजनं करोति। एतस्मात् वयं वदामो “मृत्तिका कारणम्, घटः कार्यञ्च” । 

परं तु अनुमानप्रमाणमेतस्य बोधस्यासत्यत्वन्दर्शयति। 

इदमनुमानप्रमाणमेवमस्ति - कार्यकारणभावो मिथ्या, दृश्यत्वात्, रज्जुसर्पवत्, शुक्तिरूप्यवच्च। अनेनानुमानप्रमाणेन कार्यकारणभावस्य मिथ्यात्वम्, तन्नाम सत्ताया अभावे सति सत्तासदृशं दृश्यत्वम्, सुष्ठु स्थापितम्। मृगमरीचिकायाः सदृशमेवास्ति कार्यकारणभाव इति साधितमनेनानुमानेन। नाम कार्यकारणभावस्य सत्ता नास्ति, सत्ता अस्ति इति प्रतिभाति मात्रम्। 

कार्यकारणभावस्य मिथ्यात्वमस्मान् बोधयति यदस्माभिर्गृहीतं मृत्तिका नास्ति अस्माभिर्गृहीतस्य घटस्य कारणम्। घटमृत्तिकयोर्मध्ये कोऽपि कार्यकारणभाव एव नास्ति, अस्ति इति केवलम्प्रतिभाति।

उदाहरणार्थं स्वप्नदृष्टघटस्य निर्माणङ्गृह्यताम् इदन्तु सर्वैरङ्गीकृतं यत् स्वप्नदृष्टमृत्तिका-स्वप्नदृष्टघटयोर्मध्ये कोऽपि कार्यकारणभावो नास्ति । तयोरुभयोः सत्ता एव  नास्ति । तयोः सत्तायाः प्रतिभासमात्रं स्वप्ने भाति । वस्तुतया स्वप्नदृष्टवस्तूनां  मनोवृत्त्यात्मकत्वमेवास्माभिस्सर्वैः स्वीकृतम् । तन्नाम स्वप्नदृष्टघट एका मनोवृत्तिः, स्वप्नदृष्टमृत्तिका अपरा मनोवृत्तिरित्येव स्वीकरणीयम् । नास्ति कोऽपि घटो मृत्तिका वा स्वप्ने । मनसो विलासः स्वप्नमिति सर्वैरङ्गीकृतम् । मनस एकं स्पन्दनं मृत्तिकारूपेण प्रतिभाति, अपरं स्पन्दनं पुन:  घटरूपेण भाति । स्वप्नदृश्ययोर्मृत्तिकाघटयोर्मध्ये कोऽपि संबन्धो नास्ति । स्वप्ने यथा मृत्तिका स्वसत्ताया अभावे सति अपि दृष्टा, घटश्च स्वसत्ताया अभावे सति एव दृष्ट:, तथा एव तयोर्मध्ये कार्यकारणभावोऽपि स्वसत्ताया अभावे सति अस्माभिर्दृष्ट:।       

स्वप्नजाग्रतयोर्मध्ये ईषन्मात्रमपि वैषम्यं नास्ति। तयो: सर्वाङ्गसमतानुभवेन सिद्धा। श्रुतौ भाष्ये च इदन्तत्त्वं  विस्तरेण प्रतिपादिम् । एवं सति यथा स्वप्नदृष्टघट-मृत्तिकयोर्मध्ये कार्यकारणभावो नास्ति, तथा एव जाग्रति दृष्टयोः घट-मृत्तिकयोर्मध्ये अपि कार्यकारणभावो नास्ति एव । जाग्रति दृष्टे  घटमृत्तिके मनसः स्पन्दनमात्रमेव   ।  

अस्य सिद्धान्तस्य परिणामाः 

यस्मिन् क्षणे अस्माभिः कार्यकारणभावस्य मिथ्यात्वम्, तन्नाम सत्ताया अभावे सति दृश्यत्वम्, अवगतम्, तस्मिन्नेव क्षणे “कुतः, कथम्, किमर्थम्” इति शब्दानामवसानम्भवति। “कुतः, कथम्, किमर्थम्” इति शब्दानाम्पोषणङ्कार्यकारणभावे सति एव भवति। 

एतस्य राद्धान्तस्य परिणामा न साधारणाः -

“कुतो वायुः प्रवहति” इति अस्य प्रश्नस्य उत्तरं दाबवैषम्यं न भवेत्, कार्यकारणभावस्य सत्ताया अभावात्

“कुतोग्निरुष्णः” इति अस्य प्रश्नस्य उत्तरम् उष्मोत्सर्ग-रासायनिक-प्रक्रिया न भवेत्, कार्यकारणभावस्य सत्ताया अभावात्  

अतो दाबवैषम्यस्य वायुप्रवहनम्प्रति कारणत्वम्प्रतिभाति, उष्मोत्सर्गप्रक्रियाया अग्नेरुष्णत्वम्प्रति कारणत्वम्प्रतिभाति, परन्तु तयोः कारणत्वं नास्तीति सिद्धान्तेन निर्धारितम्भवति

अत एव “कुतः” केनापि प्रकारेण प्रष्टव्यो नास्ति। पृष्टे सति, यदुत्तरन्दीयते तत्तु निरर्थकञ्जल्पनम्।

अत एव “केन कारणेन अहं सुखी अस्मि” इति अस्य प्रश्नस्य नास्ति किमपि उत्तरम्। “मया पूर्वकाले धर्म आचरितः, पुण्यमर्जितमित्येतस्मात् कारणादहं सुखी अस्मि”, इत्यस्ति निरर्थके मन:कल्पने।

“मया मम इष्टं वस्तु प्राप्तमिति एतस्मात् कारणादहं सुखी अस्मि”, इति अपरा निरर्थका कल्पना।

मम रुधिरे शर्कराया वृद्धिरभवत्, मया मेटफोर्मिन् गृहीतम्, अधुना रुधिरे मम शर्कारायाः स्तरं सामान्यम्। अतो मेटफोर्मिन् अस्ति शर्कराया ह्रासे कारणमिति निष्कर्षोपि न साधु, कार्यकारणभावस्य मिथ्यात्वात्।

एवमेव “अहं दुःखी अस्मि” इति अस्य मनोभावस्यापि नास्ति किमपि कारणम्, कारणस्यैवासत्त्वात्, कार्यकारणभावस्य मिथ्यात्वाच्च। 

“मम प्रिय: कालेन मत्तो दूरीकृतः” इति नास्ति कारणं मम दुःखस्य, कार्यकारणभावस्य मिथ्यात्वात्।

“मया ध्यानङ्कर्तव्यम्” इति अपि निरर्थकं यतः तव्यत्प्रत्ययः कार्यकारणभावे सति एव सार्थकः। “मया ध्यानं करणीयं यतो ध्यानेन मम आध्यात्मिकप्रगतिर्भविता” इति अपि कल्पनामात्रम्।

“इच्छा, तृष्णा स्तः दुःखस्य कारणे” इति अपि निराकरणीया वृथा कल्पना, कार्यकारणभावस्य मिथ्यात्वात्।

अयमस्ति तर्हि निष्कृष्टोर्थः - अस्माकम्पुरत एकं दृश्यं प्रचलति इति भाति, इदन्दृश्यमस्ति मिथ्या, दृश्यत्वात्। पुनः मिथ्यावस्तुनः कोपि आधार: किमपि अधिष्ठानम् आलम्बनम्भवति एव। लोके मिथ्यावस्तु कदापि निरधिष्ठानमाधारविहीनं निरालम्बं न दृश्यते। यथा रज्जुसर्पो रज्ज्वा विना द्रष्टुं न अर्हति, शुक्तिरूप्यं शुक्त्या विना न दृश्यते, तथैव मिथ्यादृश्यम् अमिथ्याधिष्ठानेन विना प्रतिभातुं न समर्थम्। अयमेवामिथ्याधारो द्रष्टा इति शब्देन शास्त्रे अभिहितम्। अयं द्रष्टा न मिथ्या, अस्य अदृश्यत्वात्। 

अत्रेदमवधेयं यत् द्रष्टावस्तु द्रष्टा इति शब्देन दृश्यस्य परिप्रेक्ष्यात् एव अभिहितम्। नाम दृश्ये स्थित्वा अधिष्ठानस्य निरूपणं द्रष्टा इति शब्देन भवति। द्रष्टरि स्थित्वा द्रष्टुर्निरूपणं न शक्यते, तस्य शब्देन अगोचरत्वात्, यतो वाक् अपि ततः निवर्तते।

द्रष्टा न दृश्यम्। द्रष्टा इति शब्दोपि नास्त्यावश्यकः। न दृश्यमित्येतावतैव द्रष्टावस्तुनः स्वरूपस्य निरूपणं सुष्ठु भवति। द्रष्टृत्वरहितत्वम् एव द्रष्टुः स्वरूपम्। नेति नेति एव अस्य निरूपणम्।

स्वप्नदृष्टमेकन्दृश्यं नास्ति अपरस्य दृश्यस्य कारणम्, कार्यं वा, कार्यंकारणभावस्य मिथ्यात्वात्, दृश्यस्य मिथ्यात्वाच्च। अत एव “कुतः, किमर्थम्, कथम्” आदयो न प्रष्टव्याः।

सुष्ठु भोः, अधुना करणीयङ्किम्? 

बहु सम्यक् भोः। मया अवगतं यत् मम दुःखस्य सुखस्य वा नास्ति किमपि कारणम्। मम इच्छायाः, तृष्णाया अपि कारणं नास्ति। एते सर्वे मम पुरतः प्रचलायमानानि दृश्यानि। अधुना अहङ्किंङ्करवाणि? ममास्य बोधस्य फलङ्किम्? अथ वा ममास्य बोधस्य फलानि किम्भवेयुः?

भवान् पुनस्तस्मिन्नेव जाले पतति। बोधस्य फलमिच्छन् भवान् कार्यकारणभावस्य सत्यत्वमेव दर्शयति। 

अत्रेदमवधेयम् - कार्यकारणभावस्य निर्धारणम्बोधस्य अन्तिमं सोपानम्। नास्ति किमपि करणीयमवशिष्यते तदनन्तरम्। नास्ति किमप्यपेक्षितम्, आशंसितं वा तदनन्तरम्। किम्बहुना, दृश्यस्य कालस्य मिथ्यात्वमपि अस्मिन्नेव बोधे अन्तर्निहितम्।

“कुतः” इत्यस्य सातत्यङ्कार्यकारणभावस्य मिथ्यात्वनिर्धारणेन सह न सङ्गच्छते।

अत्र पुनरिदमवधेयम्। मिथ्यात्वं नाम सत्ताया अभावे सति दृश्यत्वम्। एवं सति “कुत:, किमर्थम्, कथम्” इति एतेषां सातत्ये सति अपि न राद्धान्तस्य कापि हानिः। “कुतः” इति अस्य दर्शने अदर्शने च न एतस्य मिथ्यात्वस्य कापि क्षतिः। दृश्यस्य सत्ताया अभावस्य निर्धारणमस्य दर्शनस्य सार्थकत्वे अस्माकं निश्चयं निवारयति, एतस्य निस्सारत्वं च बोधयति।

अयमेव कार्यकारणभावस्य मिथ्यात्वस्य निष्कृष्ट: परिणामो यत् “कुत:” इति शब्दस्यावसानम्भवति। कुत अग्निरुष्णः, कुतो वायुः प्रचलति, कुतो मम सुखम्, कुतो मम दुःखम् इति एतेषां प्रश्नानां नास्ति कोऽपि अवसरः।

“यदि अहं ध्यानं कुर्यां तर्हि किं भविता” इति अस्य प्रश्नस्य निरर्थकता स्फुटीभविष्यति। “वर्तमानकाले मया क्रियमाणं कर्म भविष्यत्काले फलञ्जनयति” इति अयं निश्चयः कार्यकारणभावस्य मिथ्यात्वस्य निर्धारणेन दूरीभवति।

एवमेव “मिथ्यावस्तुनि सत्यत्वनिश्चयो मम दुःखानां कारणम्” इति अपि न स्वीकरणीयमुत्तरम्, कार्यकारणभावस्य मिथ्यात्वात्।

कार्यकारणभावस्य मिथ्यात्वनिर्णयेन सह प्रयासनिष्ठकारणत्वस्यापि मिथ्यात्वनिर्धारणं भवति। “मया इदं करणीयम्” इति कर्तव्यबोधस्याप्यवसानं भवति। 

“अहमिति तावत् प्रथमोऽध्यास:” इति वदत् शास्त्रमपि अहम्पदवाच्यपदार्थस्य दृश्यत्वं वर्णयति। यथा मम शरीरं दृश्यम्, तथैव अहम्पदार्थोऽपि दृश्यम्। अहम्पदलक्ष्यपदार्थे सर्वाणि दृश्यानि इन्द्रजालसदृशानि। न तेषां दर्शने अदर्शने कोऽपि विशेषः। तेषान्दर्शनम्भवतु नाम, अदर्शनम्भवतु नाम, न तेन मम किमपि प्रयोजनम्।

दृश्यस्य कार्यकारणभावस्य मिथ्यात्वं प्रयासस्य आयासस्य च प्रयोजनहीनता बोधयति। दृश्यस्य सुखस्य, दुःखस्य वा कारणान्वेषणे न प्रवृत्तिरवशिष्यते। तेषां निस्सारत्वमवगच्छन् वयं स्वात्मनि एव रमामहे। युष्मत्प्रत्ययगोचरस्य अहम्पदवाच्यपदार्थस्य च क्रियासु साक्षिभावो उत्पद्यते। सर्वेषान्दृश्यानाम्प्रति निरपेक्षताऽऽविर्भवति। दृश्यञ्चलचित्रमिव पश्यन् साक्षिभावे स्थित्वा, पुनः दृश्यम्प्रति पूर्णनिरपेक्षता वहन् स्वरूपे स्थित्वा स्वात्मनि वयं रमामहे। न तत्र दृश्यस्य ईषन्मात्रमपि उपलब्धिर्भवेत्। स्वात्मन आनन्दस्य एव चिदात्मक: सन्बोधो भवेत्!!   


No comments:

मुमुक्षुतायाः चरमोत्कर्षे मुमुक्षुत्वमपि त्यक्तव्यम्!

मोक्षार्थिभि: चत्वारि साधनानि सम्पादनीयानि इति वेदान्तग्रन्थेषु सर्वत्र लभ्यते। तत्र विवेकवैराग्यशमादिषट्कसम्पत्तिमुमुक्षुत्वम् इति साधनचतु...