Saturday, April 25, 2026

अनित्यं सर्वमेवेदम्!

अस्मिञ्जगति बहूनि वस्तूनि सन्ति यै: सह वयमस्माकं सम्बन्धो वर्तते इति मन्यामहे। इदं शरीरं मम, अयं मम तनय:, इयं मम सुता, इयं मम भार्या, इदं मम गृहम्, इदं मम वित्तमित्यादय: सन्ति मम पदार्थै: सह केचन सम्बन्धा:। एतेभ्य: सम्बन्धकारणेभ्य: शरीरापत्यभार्याणां सुखदुःखयो: अहं सुखदुःखे अनुभवामि। गृहवित्तयोर्लाभे स्वकीयस्य लाभोऽनुभवामि

अत्र सरलतया एतं तु अवगन्तुं शक्नुम एव वयं यदेते सर्वे अनित्या:। शरीरं भवतु, भार्या भवतु, अपत्यानि भवन्तु, वित्तगृहशरीराणि भवन्तु वा, ते सर्वे अनित्या एव। अद्य सन्ति, परेद्युर्भवितारो न वा इति वक्तुं न शक्यते। माता अद्य अस्ति, परेद्यु: सा कुत्रापि न दृश्यते। क्व गता सा? कुत्रापि न दृश्यते। तस्या वाचो न श्रूयन्ते। गृहं ह्यो मया दृष्टम्, अद्य न दृश्यते, भूकम्पे नष्टं जातम्। इदं शरीरं, यस्मिन् आसीन्मम महदभिमान:, अद्य जराजीर्णमस्ति, कीदृशी कुरूपता आगता अस्मिन्! अहो! सत्यम्! एते सर्वे मम सम्बन्धिन: सुतरामनित्या:    

अथ न केवलं तेषामनित्यत्वम्, प्रत्युत तेषां दोषदूषितत्वमपि विद्यते। आध्यात्मिकाधिभौतिकाधिदैविकतापैर्दूषिता मम सम्बन्धिनो मयि अपि शोकं तापञ्च जनयन्ति  

न किमपि सारं वर्तते अत्र। यद्वस्तु अद्य वर्तते, परेद्युर्वर्तते न वा इति वक्तुं न शक्यते चेत् तर्हि किं सारं तत्र? न किमपि सारं तत्र। एतस्मात् सारहीनत्वात् पुन: तेषां हेयत्वम् हेयत्वात् निन्दितत्वम्   

एतेषु रम्यमानोऽहमसारेषु सारं पश्यामि हेयेषु उपादेयत्वं पश्यामि अहो मम मूढता यदनित्येषु नित्यत्वं वाञ्छामि! 

एतेषां दृश्यानामनित्यत्वमवगच्छन् तान् प्रति तीव्रवैराग्यञ्जायते को लाभ: तेभ्यो मम! तै: सह मम सम्बन्धे सति केवला हानिरेव वर्तते    

एवं दृश्यानां सर्वेषां अनित्यत्वं तापत्रितयदूषितत्वमसारत्वं निन्दितत्वं हेयत्वञ्च जानन् तेभ्यो विमुखता जायते, क्रमेण शान्तिर्लभ्यते 

अष्टावक्रगीता नवमाध्याये इदन्तत्त्वं श्लोकरूपेणोपदिशति -

अनित्यं सर्वमेवेदं तापत्रितयदूषितम् ।

असारं निन्दितं हेयमिति निश्चित्य शाम्यति ॥ ३ ॥

2 comments:

Danny X said...

महोदय, भवतो जालपुटं सम्यगस्ति। भवतो भाषाकौशलमुत्तमम्। अद्वैतवेदान्तविषये मम ज्ञानं न्यूनमेव। अतस्तद्विषये बहुकिमपि वक्तुं न शक्नोमि। परन्तु भवतो जालपुटं पठित्वा तादृशं ज्ञानं प्राप्तुं शक्ष्यामि। भवान् भौतिकविज्ञानमपि पठति वा? (भवतो जालपुटपरिचये लिखितमस्ति।) भौतिकविज्ञाने मम विशेषरुचिरस्ति।

Sudhanshu Shekhar said...

धन्यवादा महोदय। अद्वैतवेदान्तसम्बद्धेषु विषयेषु एव यदा भौतिकविज्ञानस्य साहाय्यमपेक्षते, तदैव अहं तं पठामि। स्वतन्त्ररूपेण भौतिकविज्ञाने रुचिर्नास्ति, दृश्यस्य मिथ्यात्वात्, भौतिकविज्ञानस्य दृश्यविषयसम्बद्धत्वाच्च।

मुमुक्षुतायाः चरमोत्कर्षे मुमुक्षुत्वमपि त्यक्तव्यम्!

मोक्षार्थिभि: चत्वारि साधनानि सम्पादनीयानि इति वेदान्तग्रन्थेषु सर्वत्र लभ्यते। तत्र विवेकवैराग्यशमादिषट्कसम्पत्तिमुमुक्षुत्वम् इति साधनचतु...