योगशास्त्रे असंप्रज्ञातसमाधिना, पुन: वेदान्तशास्त्रे ब्रह्मज्ञानेन निरतिशयानन्दस्वरूपस्य आत्मन: साक्षात्कार: प्रतिपादित:। यथा चित्तवृत्तिनिरोधरूपो योगोऽसंप्रज्ञातसमाध्याख्य: साक्षिण आत्मन: साक्षात्कारे हेतुत्वं वहति, तथैव ब्रह्मज्ञानमपि इति योगवासिष्ठे वर्णितम्। तत्र भगवान् वसिष्ठ उवाच -
द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव। योगो वृत्तिनिरोधो हि ज्ञानं सम्यगवेक्षणम्।।
असाध्य: कस्यचिद्योग: कस्यचित्तत्त्वनिश्चय:। प्रकारौ द्वौ ततो देवो जगाद परम: शिव:।। इति।
योगशास्त्रे चित्तं परमार्थवस्तु इति स्वीकृतम्। एवं तर्हि साक्षिमात्रस्य साक्षात्कारस्तु तदैव भवितुं शक्यते यदा चित्तस्य चित्तदृश्यस्य च अप्रतीतिर्भवेत्। यत: संप्रज्ञातसमाधौ आत्मैकाकारवृत्तिप्रवाहयुक्तं अन्तःकरणं साक्षिणा अनुभूयते, अतो न तत्र चित्तस्य अप्रतीति:, न पुन: साक्षिण: साक्षात्कारो वा भवितुं शक्यते। किन्तु असंप्रज्ञातसमाधौ चित्तं सर्वथा निरुद्धं भवति, न तत्र काऽपि वृत्तिरवशिष्यते। एवं सति संस्कारमात्ररूपेण स्थितमपि चित्तं न साक्षिणा अनुभूयते। अयमेव विशेष एतयो: समाध्योर्मध्ये। अथ यतोऽसंप्रज्ञातसमाधौ चित्तं चित्तदृश्यञ्च न साक्षिणा अनुभूयेते, अत: स्वप्रकाशसाक्षिमात्रस्य प्रकाश: तस्यामवस्थायाम्भवति।
वेदान्तशास्त्रे किन्तु न एवंरूपा प्रक्रिया। अत्र चित्तस्य अपि कल्पितत्वमङ्गीकृतम्। चित्तस्य कल्पितत्वे सति, अकल्पितस्य अधिष्ठानस्य ज्ञानमात्रात् रज्जुसर्पवत् कल्पितस्य चित्तस्य अप्रतीतिर्भवति। न तस्य कृते कोऽपि समाधिरनुष्ठेय:। एतस्मात् कारणात् भाष्यकारै: कुत्रापि आत्मसाक्षात्काराय योगापेक्षा समाध्यपेक्षा न प्रतिपादिता, किन्तु ब्रह्मज्ञानं अधिष्ठानज्ञानमेव कारणत्वेनाङ्गीकृतम्। अधिष्ठानज्ञानात् कल्पितस्य प्रपञ्चस्य अदर्शनत्वे सति शुद्धात्मन आनन्दात्मक: प्रकाशो भवति इति प्रक्रिया।
अयं विशेषो योगवेदान्तयोर्मध्ये। इदन्तत्त्वङ्गूढार्थदीपिकायां षष्ठाध्यायस्य एकोनत्रिंशत्तमे श्लोकव्याख्याने विवरीतम्।
No comments:
Post a Comment