Friday, October 31, 2025

आत्मा मनसो जवीय:

ईशावास्योपनिषद: चतुर्थे मन्त्रे आत्मन: स्वरूपं वर्णयन्ती श्रुतिरेनमनेजदिति वक्ति। पुन: तस्मिन्नेव मन्त्रे आत्मा मनसो जवीय इति अपि वर्णितमस्ति। अत्र संशयो जायते यत् कथं विरुद्धमिदं श्रुतिभिरुच्यते। अनेजदिति शब्दादात्मनोऽअचलत्वं प्रतिपादितम्। "एजृ कम्पने" इति व्युत्पत्तेरात्मा कम्पनरहित: स्पन्दरहित: चलनवर्जित इति सिद्ध:। आत्मन: स्वावस्थाप्रच्युतिर्नास्ति इति एतस्मान्मन्त्रात् भाति।  तर्हि कथं पुनरस्य आत्मनो मनसो जवीयत्वं अत्र उदितं श्रुतिभि:। अचलं वस्तु वेगवद्भवितुं नार्हति 

भाष्यकारा अत्र समाधानं कुर्वते - "नैष दोष:, निरुपाध्युपाधिमत्त्वेनोपपत्ते: तत्र निरुपाधिकेन स्वेन रूपेणोच्यते - अनेजदेकम् इति मनस: अन्तःकरणस्य सङ्कल्पविकल्पलक्षणस्योपाधेरनुवर्तनात्। इह देहस्थस्य मनसो ब्रह्मलोकादिदूरस्थसङ्कल्पनं क्षणमात्राद्भवतीत्यतो मनसो जविष्ठत्वं लोकप्रसिद्धम्। तस्मिन्मनसि ब्रह्मलोकादीन् द्रुतं गच्छति सति, प्रथमप्राप्त इवात्मचैतन्याभासो गृह्यते। अत: मनसो जवीय: इत्याह।"      

आचार्याणामयमाशय: - आत्मा कम्पनरहितोऽचल इति यत्र श्रुतिर्वक्ति तत्र आत्मन: शुद्धं निरुपाधिकं स्वरूपमभिप्रेतमिति अवगन्तव्यम्। निरुपाधिकस्य शुद्धात्मन: स्वरूपे न किमपि कम्पनं चलनं वा भवितुं शक्यते। किन्तु सोपाधिके आत्मनि उपाधिधर्माणामध्यारोपाद्धर्मस्य भानं भवति। अथ मन: किञ्चित् तीव्रवेगवद्वस्तु इति तु प्रसिद्धो यत: क्षणमात्रे इदं मन: पृथिवीलोकात् ब्रह्मलोकादीन् याति। एवं पृथिवीतो गतं मनो ब्रह्मलोकम् क्षणोपरान्ते यदा प्राप्नोति, तदा अद: आत्मानं आत्माभासरूपेण तत्र पूर्वमेव तिष्ठन् लभते। इदं तु आत्मनो मनसो जवीयत्वं स्वीकारादृते न भवितुं शक्नोति। पृथिवीलोके वर्तमान आत्मा मनसो ब्रह्मलोकप्राप्ते: पूर्वमेव तत्र अपि वर्तमानं लभ्यते इति तु आत्मनो मनसोऽपि वेगवत्त्वं दर्शयति एव। मनसा तु चैतन्याभासमेव गृह्यते न पुन: शुद्धचैतन्यम्, तस्य मनसा अगोचरत्वात्। तत् चैतन्याभासं चैतन्यस्य वर्तमानत्वन्तु दर्शयति एव             

एवं शुद्धात्मनोऽचलत्वं सोपाधिकात्मनो वेगवत्त्वञ्च श्रुतिरुपदिशति एवमिदमवसीयते यत् यत्र कुत्रचिदपि आत्मनो धर्मयुक्तत्वेन उपदेशो यदि श्रुतिषु लभ्यते, तर्हि स: सोपाधिकात्मविषयक एव इति स्वीकरणीयम्। शुद्धात्मन उपदेशस्तु निषेधमुखेन श्रुतिभिर्नेति नेतीति रूपेण क्रियते इति सर्वमनामयम्      

No comments:

मुमुक्षुतायाः चरमोत्कर्षे मुमुक्षुत्वमपि त्यक्तव्यम्!

मोक्षार्थिभि: चत्वारि साधनानि सम्पादनीयानि इति वेदान्तग्रन्थेषु सर्वत्र लभ्यते। तत्र विवेकवैराग्यशमादिषट्कसम्पत्तिमुमुक्षुत्वम् इति साधनचतु...