ईशावस्योपनिषद: प्रथममन्त्रे श्रुतिर्मुमुक्षून् बोधयति "मा गृध: कस्य स्विद्धनम्" इति। अत्र भगवता भाष्यकारेण अस्य वाक्यस्य व्याख्यनद्वयं कृतम्। धनविषयिकां गृधिम् आकाङ्क्षाम् मा कार्षी इति प्रथमव्याख्यानम्। अन्या इच्छा भवेयुर्नाम, धनविषयिका इच्छा तु मा कार्षी:। कस्य धनविषयिकाया इच्छाया निवारणं श्रुत्या क्रियते इति पृष्टे सति कस्यचिदपि धनस्य इच्छा मा कुरु इति आचार्या ब्रुवते। अद: धनं स्वकीयं परकीयं वा भवेत्, अमुष्य धनस्य गृधिं मा कार्षी:। परस्य धनस्य इच्छा तु केनचिदपि कदाचिदपि न करणीया, अत्र श्रुतिस्तु स्वकीयस्य धनविषये अपि इच्छाया निरोधनं कुरुते इति अयं विशेषेण ध्यातव्य:। निजमहत्परिश्रमेणार्जितं धनमपि तव इच्छाविषयं मा भवेदित्येव श्रुतेरभिलाष:।
द्वितीयव्याख्यानं तु एवं क्रियते - मा गृध:। तव काऽपि इच्छा मा भवेत्। केवला धनविषयिकाया इच्छाया निवारणम् अत्र नाभिप्रेतम्, किन्तु इच्छामात्रस्य त्यागोऽत्र कथ्यते। किमर्थम्? कस्य अस्ति धनम् इति ब्रूहि? धनं नास्ति कस्यचिदपि, न स्वस्य, न वा परस्य अस्ति धनम्। मम धनम् इति तु अस्ति वृथाभिमान:। अयम् अभिमानोऽध्यासात्मक:। वस्तुतस्तु धनं नास्ति कस्यचिदपि। अथ यदि धनं कस्यचिदपि भवेत्, तर्हि इच्छाविषयं भवितुमर्हेत्। यत: नास्ति धनं कस्यचिदपि, अत: तदिच्छाविषयं मा कुरु।
एवं त्यक्तैषणं मुमुक्षुं प्रति श्रुत्या इच्छामात्रस्य त्यागो विधीयते। धनविषयिकाया इच्छाया: त्यागस्तु विशेषेण प्रयासेन अस्माभि: सर्वै: संपादनीय इति लभ्यते।
No comments:
Post a Comment